________________ 138 शोभनस्तुति-वृत्तिमाला अवचूरिः हे वज्राङ्कुशि देवि ! तनुमदवने-जन्तुरक्षणे प्रयलं विधेहि / हे सृणिवज्रधारिणि ! / स्वायत्यागे ! शोभन आयोऽर्थागमो दानं च यस्याः / त्वं कथंभूता ? | हेमतारा-कनकोज्ज्वला / हे अध्यारूढे (गतवति) ! क्व ? / द्विपेन्द्रे / किंभूते ? / अतिमत्ते-मदोद्धते / चन्द्रकरा इव श्वेता भा यस्य तस्मिन् / स्वायत्या-निजायामेन / अगे-पर्वत इव / अतनु-प्रचुरं मदवनं-मदवारि यस्य तस्मिन् / अरातिः-वैरी सोऽस्यास्तीत्यरातिमान्, तस्य भावोऽरातिमत्ता, सा न मता यस्यास्तस्याः संबोधनम् / / // इति चन्द्रप्रभजिनस्तुतयः // 4 / 8 / 32 // . . & # 8