________________ श्रीचन्द्रप्रभजिनस्तुतयः 133 'श्रवणचुलुकैः' श्रोत्राञ्जलिभिः / 'यं च' सिद्धान्तम् / ‘मोदात्' प्रहर्षात् / 'विहायःसद्राजी' विहायःसदोदेवाः तेषां राजी-पंक्तिः / 'वः' युष्माकम् / ‘सकविधिषणा' सह कविधिषणाभ्यां-शुक्रसुरगुरुभ्यां वर्तते यः असौ / ‘अपात्' पीतवती / ‘अनेकोपमानः' अनेकानि-अपरिमितानि समुद्रचन्द्रादीनि उपमानानि यस्य सः / ‘सद्राजीवः' इत्यपहाय प्रथमान्तविशेषणानि जिनस्य सिद्धान्तस्य वा सम्बन्धीनि यानि / स सिद्धान्तः अहितहतये वः स्तात्, कविधिषणापादने दक्षो यं जिनेन्द्रः अख्यापयदिति सम्बन्धः / / 31 / / अवचूरिः स सिद्धान्तो वो-युष्माकमहितक्षयाय भूयात् / यं सिद्धान्तं सन्ति-शोभनानि कमलानि यस्य स जिनेन्द्र: प्रधानकमलोऽख्यापयद्-ऊचिवान् / कवयः-शास्त्रज्ञास्तेषां बुद्धिजनने दक्षो-विचक्षणः / न विद्येते कोपमानौ यस्य यत्र वा / विहायःसदो-देवास्तेषां राजी-श्रेणिः कर्णचुलुकैः-श्रोत्राञ्जलिभिर्मोदाद्हर्षाद् यं च सिद्धान्तमपात्-पीतवती / श्रेणी किंभूता ? / सह कविधिषणाभ्यां-शुक्रगुरुभ्यां वर्तते या / अनेकानि चन्द्रसमुद्रादीन्युपमानानि यस्याः / प्रथमान्तविशेषणानि जिनस्यागमस्य वा योज्यानि ‘सद्राजीवः' इति मुक्त्वा / / 31 / / वज्राङ्कुश्याः स्तुतिःवज्राङ्कुश्यकुशकुलिशभृत् ! त्वं विधत्स्व प्रयत्न स्वायत्यागे ! तनुमदवने हेमताराऽतिमत्ते / * अध्यारूढे ! शशधरकरश्वेतभासि द्विपेन्द्रे स्वायत्याऽगेऽतनुमदवने हेऽमतारातिमत्ते ! // 4 // 32 // - मन्दा० (1) __ज० वि०-वज्राङ्कुश्यकुशेति / 'हे' इति आभिमुख्याभिव्यक्तये / वज्राङ्कुशि !-वज्राङ्कुशीसंज्ञिके ! त्वं-भवती तनुमदवने-प्राणिनां रक्षणे प्रयत्न-आदरं विधत्स्व-कुरुष्वेति क्रियाकारकसम्बन्धः / अत्र ‘विधत्स्व' इति क्रियापदम् / का कर्जी ? 'त्वम्' / कं कर्मतापन्नम् ? 'प्रयत्नम्' / कस्मिन् ? "तनुमदवने' / कथंभूता त्वम् ? 'हेमतारा' स्वर्णवदुज्ज्वला / अपराणि सर्वाण्यपि वज्राङ्कुश्या देव्याः संबोधनानि / तेषां व्याख्या यथा-हे 'अङ्कुशकुलिशभृत्' अङ्कुशः-सृणिः कुलिशो-वज्रः तौ बिभर्तीति