________________ 134 तथा तत्संबोधनं हे अङ्कु० / एतद् विशेषणमपि घटते / हे 'स्वायत्यागे !' आयः-अर्थस्य आगमः त्यागोदानं शोभनौ आयत्यागौ यस्याः सा तथा तत्संबो० हे स्वाय० / हे 'अध्यारूढे' ! आसीने ! / कस्मिन् ? 'द्विपेन्द्रे' गजेन्द्रे / द्विपेन्द्रे कथंभूते ? 'अतिमत्ते' अतिशयेन मदवति। पुनः कथंभूते ? 'शशधरकरश्वेतभासि' शशधरः-चन्द्रमाः तस्य करो-द्युतिः तद्वत् श्वेता-उज्ज्वला भाः-त्विड् यस्य स तथा तस्मिन् / पुनः कथंभूते ? 'अगे' अग इव पर्वत इव अगस्तस्मिन् पर्वतप्राय इत्यर्थः / कया ? 'स्वायत्या' स्वस्यआत्मनो या आयतिः-आयामः दीर्घतेति यावत् तया हेतुभूतया / पुनः कथं० ? 'अतनुमदवने' अतनुप्रभूतं मदवनं-मदरूपं जलं यस्य स तथा तस्मिन् / अथवा अतनुमद एव श्यामत्वाद् वनं-काननं यस्य स तथा तस्मिन् / तथा चायमभिप्रायः-द्विपेन्द्रस्त्वगोपमो वर्णितः, अगे च वनं भवेत्, तेन अत्रापि अतनुमदरूपं वनमस्तीति / हे 'अमतारातिमत्ते' अरातयो-वैरिणो विद्यन्ते यस्य सोऽरातिमान, तस्य भावोऽरातिमत्ता, न मता-नाभिप्रेता अरातिमत्ता यया सा तथा, विरोधानभिलाषिणीत्यर्थः / / अथ समासः-अङ्कुशश्च कुलिशश्च अङ्कुशकुलिशौ ‘इतरेतरद्वन्द्वः' / अङ्कुशकुलिशौ बिभर्तीति अङ्कु० 'तत्पुरुषः' / तत्संबो० हे अङ्कुश० / आयश्च त्यागश्च आयत्यागौ ‘इतरेतरद्वन्द्वः' / शोभनौ आयत्यागौ यस्याः सा स्वायत्यागा ‘बहुव्रीहिः' / तत्संबोधनं हे स्वायत्यागे ! / तनुमतामवनं तनुमदवनं 'तत्पुरुषः' / तस्मिन् तनु० / हेमवत् तारा हेमतारा 'तत्पुरुषः' / अतिशयेन मत्तोऽतिमत्तः 'तत्पुरुषः' / तस्मिन् अति० / शशं धरतीति शशधरः 'तत्पुरुषः' शशधरस्य करः शशधर० 'तत्पुरुषः' / श्वेता चासौ भाश्च श्वेतभाः कर्मधारयः / शशधरकरवत् श्वेता भा यस्य स शशधर० 'बहुव्रीहिः' / तस्मिन् / द्विपानां द्विपेषु वा इन्द्रो द्विपेन्द्रः 'तत्पुरुषः' / तस्मिन् द्विपेन्द्रे / स्वस्य आयतिः स्वायतिः ‘तत्पुरुषः' / तया स्वायत्या / न गच्छतीत्यगः 'तत्पुरुषः' / तस्मिन् अगे / न तनुः अतनुः 'तत्पुरुषः' / मद एव वनं मदवनं 'कर्मधारयः' / अतनु मदवनं यस्य सोऽतनुमदवनः ‘बहुव्रीहिः' / यदिवा अतनुश्चासौ मदश्च अतनुमदः ‘कर्मधारयः' / अतनुमद एव वनं यस्य सोऽतनु० ‘बहुव्रीहिः' / तस्मिन् अतनु० / न मता अमता 'तत्पुरुषः' / अमता अरातिमत्ता यया सा अमतारातिमत्ता ‘बहुव्रीहिः' / तत्संबोधनं हे अमतारा० / / इति काव्यार्थः / / 32 / / // इति श्रीशोभनस्तृतिवृत्तौ श्रीचन्द्रप्रभस्वामिनः स्तुतेर्व्याख्या // 4 / 8 / 32 // (2) सि० वृ०-वज्राङ्कुश्यङ्कुशेति / हे इत्याभिमुख्याभिव्यक्तये / “हे है व्यस्तौ समस्तौ च, हूतिसम्बोधनार्थयोः” इति विश्वः / हे वज्राङ्कुशि !-वज्राङ्कुशीसंज्ञिके ! त्वं-भवती तनुमदवने-प्राणिरक्षणे प्रयलं-आदरं विधत्स्व-कुरुष्वेत्यर्थः / विपूर्वकः 'डुधाञ् धारणपोषणयोः' इति धातोः ‘आशीःप्रेरणयोः'