________________ 132 शोभनस्तुति-वृत्तिमाला कोपमानौ, न विद्यते कोपमानौ यस्य सः अकोपमानः / श्रवणान्येव चुलुकाः श्रवणचुलुकाः, तैः श्रवणचुलुकैः / विहायसि सीदन्ति इति विहायःसदः, विहायःसदां राजी विहायःसद्राजी / कविश्च धिषणश्च कविधिषणौ, कविधिषणाभ्यां सहिता सकविधिषणा / अनेकानि उपमानानि यस्य सः अनेकोपमानः / / इति तृतीयवृत्तार्थः / / 31 / / (4) __दे० व्या०-सिद्धान्त इति / स सिद्धान्तः-राधान्तः वः-युष्माकम् अहितहतये स्तात्भूयादित्यन्वयः / ‘अस् भुवि' धातुः / ‘स्तात्' इति क्रियापदम् / कः कर्ता ? सिद्धान्तः / 'कस्यै ?' | 'अहितहतये' अहितस्य सापराधस्य हतिः-हननं तस्यै / केषाम् ? / वः / यत्तदोर्नित्याभिसम्बन्धाद् यं सिद्धान्तं जिनेन्द्रः-तीर्थंकर अख्यापयत्-ऊचिवान् इति सम्वन्धः / ‘ख्या प्रकथने' धातुः / 'अख्यापयत्' इति क्रियापदम् / कः कर्ता ? / जिनेन्द्रः / कं कर्मतापन्नम् ? / यं सिद्धान्तम् / किं विशिष्टो जिनेन्द्रः ? | 'सद्राजीवः' सन्ति-शोभनानि राजीवानि-कमलानि यस्य स तथा / पुनः किंविशिष्ट: ? / दक्षः कुशलः / कस्मिन् ? / 'कविधिषणापादने' कवीनां धिषणा-मनीषा तस्या आपादनं-जननं तस्मिन् / पुनः किंविशिष्टः ? / ‘अकोपमानः' कोपः-क्रोधः मानः-स्मयः अनयो ‘र्द्वन्द्वः' ततो न स्तः कोपमानौ यस्य स तथेति विग्रहः / पुनः किंविशिष्ट: ? / 'अनेकोपमानः' अनेकानि-समुद्रचन्द्रादीनि उपमानानि यस्य स तथा / अथवा सद्राजीव इति मुक्त्वा एतानि सर्वाण्यपि आगमस्य विशेषणानीति बोध्यम् / च पुनरर्थे / तेन च-पुनः यं सिद्धान्तं मोदाद् विहायःसद्राजी-अमरश्रेणिः अपात्-पीतवतीत्यन्वयः / 'पा पाने' धातुः / आदरेण श्रवणं पानमुच्यते / ‘अपात्' इति क्रियापदम् / का कर्जी ? / 'विहायःसद्राजी' विहायसि-आकाशे सदो-गृहाणि येषां ते विहायःसदः, तेषां राजी-परम्परेत्यर्थः / कं कर्मतापन्नम् ? / सिद्धान्तम् / कस्मात् ? / मोदात्-हर्षात् / कैः ? / 'श्रवणचुलुकैः' श्रवणाः-कर्णाः त एव चुलुकाः-गण्डूषाः तैः / “गण्डूषश्चुलुकश्चलुः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 262) / किंविशिष्टा विहायःसद्राजी ? / 'सकविधिषणा' कविः-शुक्रः धिषणो-बृहस्पतिः अनयो ‘र्द्वन्द्वः', ताभ्यां सह वर्तमाना / “धिषणः फल्गुनीभवः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 32) / / इति तृतीयवृत्तार्थः / / 31 / / ध० टीका-सिद्धान्त इति / 'सिद्धान्तः' आगमः / 'स्तात्' भवतु / 'अहितहतये' अनिष्टविघाताय / 'अख्यापयत्' ख्यापितवान् / 'यं' / 'जिनेन्द्रः' सर्ववेदी / ‘सद्राजीवः' सन्ति शोभनानि राजीवानि-अब्जानि यस्य / ‘स' / कविधिषणापादने' कवयः-शास्त्रकाराः तेषां धिषणापादनेप्रतिभाजनने / ‘अकोपमानः' न विद्येते कोपमानौ यस्य सः / 'दक्षः' पटुः / ‘साक्षात्' प्रत्यक्षम् /