________________ श्रीचन्द्रप्रभजिनस्तुतयः 131 'श्रवणचुलुकैः' श्रवणाः कर्णाः त एव चुलुकाः-अञ्जलयः प्रसृतय इति यावत्, तैः कृत्वा / कथम् ? / साक्षात्-प्रत्यक्षम् / “साक्षात् प्रत्यक्षतुल्ययोः” इत्यमरः / (श्लो० 2822) / कथंभूता विहायःसद्राजी ? / 'सकविधिषणा' कविः-शुक्रः / “कविः काव्यकरे सूरौ, पुंसि वाल्मीकिशुक्रयोः / खलीनेऽस्त्री कविज्ञेयः” इति गौडः / “उशना भार्गवः कविः षोडशाचिर्दैत्यगुरुः” इति हैमः (का० 2, श्लो० 33) / धिषण:बृहस्पतिः / कविश्च धिषणश्च कविधिषणो ‘इतरेतरद्वन्द्वः', ताभ्यां सह वर्तते या सा तथा / “धिषणास्त्रिदशाचार्ये, धिषणा धियि संमता” इति विश्वः / / 31 / / (3) सौ० वृ०-सिद्धान्त इति / सिद्धान्तः-आगमः वो-युष्माकम् अहितं-अनिष्टं तस्य हतिः-नाशः अहितहतिः तस्यै अहितहतये' स्तात् इत्यन्वयः / ‘स्तात्' इति क्रियापदम् / कः कर्ता ? / 'सिद्धान्तः' / 'स्तात्' भूयात् / कस्यै ? / 'अहितहतये' विघ्नविनाशाय / केषाम् ? / 'वः' युष्माकम् / किंविशिष्टः सिद्धान्तः ? / 'सः' प्रसिद्धः / सः कः ? / जिनेन्द्रः-तीर्थंकरो यं सिद्धान्तं अख्यापयत् इत्यन्वयः / 'अख्यापयत्' इति क्रियापदम् / कः कर्ता ? / 'जिनेन्द्रः' / 'अख्यापयत्' अकथयत् / कं कर्मतापन्नम् / 'यं' सिद्धान्तम् / किंविशिष्टः सिद्धान्तः ? / सन्तः-साधवः सज्जना वा तेषां राजिः-श्रेणिः तस्याः ईः अघंपापं ते प्रति वाति-क्षयं नयतीति ‘सद्राजीवः' / जिनेन्द्रपक्षे सन्ति-शोभनानि राजीवानि-कमलानि यस्य स सद्राजीवः / सुरनिर्मितस्वर्णपद्मोपरि संचरिष्णुत्वात् / पुनः किंवि० सिद्धान्तः ? | 'दक्षः' प्रवीणः / कस्मिन् ? / कवयः-प्राज्ञाः तेषां धिषणा-बुद्धिः तस्याः आपादनं-निष्पादनं तस्मिन् ‘कविधिषणापादने' / पुनः किंवि० सिद्धान्तः ? / न विद्यते कोपः-क्रोधः मानः-अहङ्कारो यस्य सः ‘अकोपमानः' / जिनेन्द्रोऽप्येवंविधः / पुनः किंवि० सिद्धान्तः ? / 'विहायःसद्राजी' विहायः-आकाशं तस्मिन् सीदन्तितिष्ठन्तीति विहायःसदो-देवाः तेषां राजी-श्रेणिः देवपंक्तिः / विहायःसद्राजी यं सिद्धान्तं प्रति श्रवणचुलुकैः-कर्णगण्डूषैः कृत्वा साक्षात् यथा स्यात् तथा मोदात्-हर्षात् अपात् इत्यन्वयः / ‘अपात्' इति क्रियापदम् / का की ? / 'विहायःसद्राजी' देवपंक्तिः / ‘अपात्' पीतवती / कं कर्मतापनम् ? / 'यं' सिद्धान्तम् / कैः ? / श्रवणचुलुकैः' / कस्मात् ? / 'मोदात्' / पुनः किंवि० सिद्धान्तः ? / अनेकानिबहूनि उपमानानि-चन्द्रसूर्यचक्रादीनि यस्य सः ‘अनेकोपमानः' जिनेन्द्रोऽप्येवंविधः / (किंविशिष्टा) विहायःसद्राजी ? / कविः-शुक्रः धिषणः-वृहस्पतिः ताभ्यां सहिता सकविधिषणा / 'ई.' स्मरेऽघेऽव्यये खेदे, कोपाक्तावी भुवि श्रियाम्' इति महीपः / इति पदार्थः / / ___ अथ समासः-न हितं अहितं, अहितस्य हतिः अहितहतिः, तस्यै अहितहतये / जिनानां इन्द्रो जिनेन्द्रः / सतां राजिः सद्राजिः, सद्राज्या ईः सद्राजी, सद्राजी वातीति सद्राजीवः / कवीनां धिषणा कविधिषणा, कविधिषणानां आपादनं कविधिषणापादनम्, तस्मिन् कविधिषणापादने / कोपश्च मानश्च