________________ 130 शोभनस्तुति-वृत्तिमाला सह कविधिषणाभ्यां वर्तते या सा सकवि० / अनेकान्युपमानानि यस्य सः अनेको० ‘बहुव्रीहिः' / / इति काव्यार्थः / / 31 / / __(2) सि० वृ०-सिद्धान्त इति / स सिद्धान्तः-राद्धान्तः वः-युष्माकं अहितहतये स्तात्-भवत्वित्यर्थः / 'अस् भुवि' सत्तायां धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'तुह्योः०' (सा० सू० 704) इति तातङादेशे, 'नमसोऽस्य' (सा० सू० 899) इत्यकारलोपे च 'स्तात्' इति सिद्धम् / अत्र ‘स्तात्' इति क्रियापदम् / कः कर्ता ? / सिद्धान्तः / “समौ सिद्धान्तराद्धान्तौ” इत्यमरः (श्लो० 285) / कस्मै ? / 'अहितहतये' अहितं-अनिष्टं दुःखादि तस्य हतिः-विनाशस्तस्यै अहितहतये / केषाम् ? / वः-युष्माकम् / (युष्मद्) इत्यस्य षष्ठीवहुवचने वसादेशः / स इति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यं सिद्धान्तं जिनानामिन्द्रो जिनेन्द्र: अख्यापयत्-ख्यापितवानित्यर्थः / ‘ख्या प्रकथने' धातोरनद्यतने कर्तरि प्रथमपुरुषैकवचनं दिए / 'धातोः प्रेरणे' (सा० सू० 1042) इति ञिः / दिवादावट्' (सा० सू०७०७) / 'रातो औ पुक्' (सा० सू० 1037) इति पुगागमः / ‘स धातुः' (सा० सू० 41) इति धातुसंज्ञा / ‘अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘गुणः' (सा० सू० 692) इति गुणः / ‘ए अय्' (सा० सू० 782) / 'स्वरहीनं०' (सा० सू० 36) / तथा च 'अख्यापयत्' इति सिद्धम् / अत्र 'अख्यापयत्' इति क्रियापदम् / कः कर्ता ? | जिनेन्द्रः / कं कर्मतापन्नम् ? / यम् / कथंभूतो जिनेन्द्रः ? / 'सद्राजीवः' सन्ति-शोभनानि राजीवानि-सुरकृतकमलानि यस्य स तथा / “बिसप्रसूनराजीव-पुष्कराम्भोरुहाणि च” इत्यमरः (श्लो० 548) / मार्गे देवविनिर्मितकनककमलोपरि चरणस्थापनादिति भावः / पुनः कथंभूतः ? / 'दक्षः' कुशलः पटुरितियावत् / “निष्णातो निपुणो दक्षः” इति हैमः (का० 3, श्लो० 6) / कस्मिन् ? / 'कविधिषणापादने' कवयः-शास्त्रकर्तारः तेषां धिषणा-सदसद्विवेकिताबुद्धिः तस्या आपादनं-जननं तस्मिन् / पुनः कथंभूतः ? / 'अनेकोपमानः' अनेकानि-असंख्यातानि उपमानानि-समुद्रचन्द्रादीनि यस्य स तथा / पुनः कथंभूतः ? / ‘अकोपमानः' कोपश्च मानश्च कोपमानौ ‘इतरेतरद्वन्द्वः', न विद्यते कोपमानौ-क्रोधाहङ्कारौ यस्य स तथा / एतानि सर्वाणि सद्राजीव इति मुक्त्वा प्रथमान्तविशेषणानि सिद्धान्तस्याऽपि युज्यन्ते / च पुनरर्थे / यं सिद्धान्तं विहायःसद्राजी-निर्जरश्रेणी मोदात्-हर्षात् अपात्-पीतवतीत्यर्थः / अत्यादरेण श्रवणं पानमुच्यते इति अत्यादरेणाश्रौषीदित्यर्थः / 'पा पाने' धातोः कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिए / 'दिबादावट्' (सा० सू० 707) / अत्र ‘अपात्' इति क्रियापदम् / का की ? / 'विहायःसद्राजी' विहायसि-व्योम्नि सद:गृहाणि येषां ते विहायःसदः-देवाः तेषां राजिः-श्रेणी इति 'तत्पुरुषः' / “तत्सदस्त्वमशः” इति (अभि०) चिन्तामणौ (का० 2, श्लो० 1) किं कर्मतापन्नम् ? / यम् / कस्मात् ? / मोदात् / कैः कृत्वा ? /