________________ श्रीचन्द्रप्रभजिनस्तुतयः सिद्धान्त-स्तुतिःसिद्धान्तः स्तादहितहतयेऽख्यापयद् यं जिनेन्द्रः सद्राजीवः स कविधिषणापादनेऽकोपमानः / दक्षः साक्षाच्छ्रवणचुलुकैर्यं च मोदाद् विहायः * सद्राजी वः सकविधिषणाऽपादनेकोपमानः // 3 // 31 // - मन्दा० ज० वि०-सिद्धान्त इति / स सिद्धान्तः-आगमः वो-युष्माकं 'अहितहतये' अहितं-अनिष्टं दुःखादि तस्य हतिः-विघातः तस्यै स्तात्-भवतु इति क्रियाकारकसण्टङ्कः / अत्र ‘स्तात्' इति क्रियापदम् / कः कर्ता ? 'सिद्धान्तः' / कस्यै ? 'अहितहतये' / स इति तच्छब्दसाहचर्यात् यच्छब्दघटनामाह-यं सिद्धान्तं जिनेन्द्रः-तीर्थकृत अख्यापयत-ख्यापितवान् / अत्रापि ‘अख्यापयत्' इति क्रियापदम् / कः कर्ता ? 'जिनेन्द्रः' / कं कर्मतापन्नम् ? 'यम्' / कथंभूतो जिनेन्द्र: ? 'सद्राजीवः' सन्ति-शोभनानि राजीवानिसुरकृताब्जानि यस्य स तथा / पुनः कथंभूतः ? 'दक्षः' पटुः / कस्मिन् ? 'कविधिषणापादने' कवयःशास्त्रकाराः तेषां धिषणापादने-प्रतिभाजनने / पुनः कथंभूतः ? ‘अकोपमानः' न विद्यते कोपमानौक्रोधाहंकारौ यस्य स तथा / पुनः कथं ? 'अनेकोपमानः' अनेकानि-अपरिमितानि उपमानानिसमुद्रचन्द्रादीनि यस्य स तथा / एतानि सर्वाण्यपि सद्राजीव इति वर्जितानि प्रथमान्तविशेषणानि सिद्धान्तस्यापि युज्यन्ते / 'च' पुनरर्थे / यं सिद्धान्तं 'विहायःसद्राजी' विहायःसदो देवाः तेषां राजीपङ्क्तिः मोदात्-हर्षात् अपात्-पीतवती / अत्यादरेण श्रवणं पानमुच्यत इति न्यायादश्रौषीदित्यर्थः / अत्रापि 'अपात्' इति क्रियापदम् / का की ?' विहायःसद्राजी' / कं कर्मतापन्नम् ? 'यम्' / कैः कृत्वा ? 'श्रवणचुलुकैः' श्रवणरूपैः चुलुकैः अञ्जलिभिः / कथम् ? 'साक्षात्' प्रत्यक्षम् / कथंभूता विहायःसंदाजी ? ‘सकविधिषणा' कविः-शुक्रः धिषणः-सुरगुरुः ताभ्यां सह वर्तते या सा तथा / / .. अथ समासः-न हितं अहितं 'तत्पुरुषः” / अहितस्य हतिः अहितहतिः 'तत्पुरुषः' / तस्यै अहि० / जिनानामिन्द्रो जिनेन्द्र: 'तत्पुरुषः' / सन्ति राजीवानि यस्य स सद्राजीवः ‘बहुव्रीहिः' / धिषणायाः आपादनं धिषणापादनं 'तत्पुरुषः / कवीनां धिषणापादनं कविधि० 'तत्पुरुषः' / तस्मिन् कविधि० / कोपश्चं मानश्च कोपमानौ 'इतरेतरद्वन्द्वः' / न विद्यते कोपमानौ यस्य सः अकोप० 'बहुव्रीहिः' / श्रवणान्येव चुलुकाः श्रवण० 'कर्मधारयः' / तैः श्रवण० / विहायसि सीदन्तीति विहायः सदः 'तत्पुरुषः' / विहायःसदां राजी विहा० 'तत्पुरुषः' / कविश्च धिषणश्च कविधिषणौ इतरेतरद्वन्द्वः' /