________________ 128 शोभनस्तुति-वृत्तिमाला निर्मितसुवर्णाम्बुजे चरणस्थापनात् / पुनः किंविशिष्टा ? | 'सत्यागा' त्यागेन-दानेन सह वर्तमाना / “दानमुत्सर्जनं त्यागः” इत्यमरः ? / पुनः किंविशिष्टा ? | ‘अमितरुक्' अमिता-अप्रमाणां रुक-कान्तिः यस्याः सा / तथा राजी किं कुर्वती ? / कृतवती / कम् ? / अवतारं-जन्मग्रहणम् / कया ? / 'भव्योद्धृत्या' भव्यानां-भव्यजीवानां उद्धृतिः-उद्धारः तया हेतुभूतया / किंविशिष्टं अवतारम् ? / 'सत्यागारं' सत्यस्य सूनृतस्य अगारं-गृहम् / पुनः किंविशिष्टम् ? / 'जयदम्' जयं-उत्कर्षं ददातीति तथा तत् / यत्तदोर्नित्याभिसम्बन्धाद् या जिनानां राजी धर्मचक्रम् अवहत्-उवाहेत्यन्वयः / वह प्रापणे' धातुः / 'अवहत्' इति क्रियापदम् / का कर्जी? | जिनानां राजी / किं कर्मतापन्नम् ? | धर्मचक्रम् / धर्मचक्रं किं कुर्वत् ? / रञ्जयत्-रक्तीकुर्वत् / कम् ? / रविं-सूर्यम् / किंविशिष्टं रविम् ? / 'दावतारम्' दावोदावानलः तद्वत् तारं-दीप्तम् / / इति द्वितीयवृत्तार्थः / / 30 // ध० टीका-जीयादिति / 'जीयात्' जयतु / 'राजी' परिपाटिः / जनितजननज्यानिहानिः' जनिता जननज्यान्योः-जन्मजरसोर्हानिः-विनाशो यया सा / 'जिनानां जगद्गुरूणाम् / ‘सत्यागारं' सत्यस्य वसतिः / ‘जयदं' अभ्युदयावहम् / ‘इतरुक्' गतरोगा / 'सारविन्दा' सहारविन्दैः-वारिजन्मभिर्वर्तते या सा / 'अवतार' जन्मग्रहणम् / ‘भव्योद्धृत्या' भव्यानां या उद्धृतिर्भवोत्ताररूपा तया हेतुभूतया / 'भुवि' पृथिव्याम् / ‘कृतवती' विहितवती / 'या' / 'अवहत्'-बभार / 'धर्मचक्रं' धर्मसमयोत्पन्नं रथाङ्गम् / 'सत्यागा' त्यागसहिता / 'रञ्जयत्' रक्तीकुर्वत् / 'अमितरुक्' अपरिमाणद्योतिः / 'सा' / 'रविं' सूर्यम् / 'दावतारं' दवोज्ज्वलम् / अथवा रञ्जयती-अनुरागमुत्पादयन्ती अमितरुक् यस्याः सा / ‘सारविन्दा' सारंबलं विन्दति-लभते या सा / 'बत' इति विस्मये / 'अरं' शीघ्रम् / प्रथमान्तानि विशेषणानि द्वितीयान्तानि कृत्वा धर्मचक्रस्य वा योजनीयानि / सा सत्यागारं जिनानां राजी जीयाद् या दावतारं धर्मचक्रं रविं रञ्जयद् भव्योद्धृत्या अवहद् इत्यन्वयः / / 30 / / अवचूरिः जिनानां राजिर्जयतात् / किंभूता ? / विहितजराजन्मक्षया / सत्यस्यागारं-गृहम् / जयदमभ्युदयावहम् / इतरुग्-गतरोगा / सारविन्दा सहारविन्दैः पदाधस्तनैः पूजाकमलैर्वर्तते या / या भव्योद्धृत्या भव्यानामुद्धृतिर्भवोत्ताररूपा तया हेतुभूतया भुवि-पृथिव्यामवतारं कृतवती / या धर्मचक्रमवहद्-उवाह / सत्यागा-सदाना / धर्मचक्रं कथंभूतम् ? / रञ्जयत्-रक्तीकुर्वत् / रविं-सूर्यम् / दावतारं-दावोज्ज्वलम् / अमिता-अप्रमाणा रुक-कान्तिर्यस्य / / 30 / / ..