________________ श्रीचन्द्रप्रभजिनस्तुतयः 127 सौ० वृ०-जीयादिति / सा जिनानां-तीर्थकराणां राजिः-श्रेणी जीयात् इत्यन्वयः / 'जीयात्' इति क्रियापदम् / का की ? / 'राजिः' / 'जीयात्' जीव्यात् [?] / केषाम् ? / 'जिनानाम्' / किंविशिष्टा जिनराजिः ? / अरविन्दैः-सुरनिर्मितकमलैः सहिता ‘सारविन्दा' / पुनः किंवि० जिनराजिः ? | 'सत्यागा' त्यागो-दानं तेन सहिता सत्यागा / सदाना इत्यर्थः / पुनः किंवि० जिनराजिः ? / 'सा' प्रसिद्धा / सा का ? | या जिनराजिः अरम्-अत्यर्थं धर्मचक्रम् अवहद् इत्यन्वयः / 'अवहत्' इति क्रियापदम् / का की ? / 'जिनराजिः' / 'अवहत्' वहति स्म / किं कर्मतापन्नम् ? / 'धर्मचक्रम्' / किंविशिष्टं धर्मचक्रम् ? / 'सत्यागारं' सत्यगृहम् / पुनः किंवि० धर्मचक्रम् ? / 'जयदं' जयप्रदम् / पुनः किंवि० धर्मचक्रम् ? / अमिता-अमाना रुक्-कान्तिः यस्य तत् ‘अमितरुक्' / पुनः किंवि० धर्मचक्रम् ? / दावो दववह्निः तद्वत् तारं-उज्ज्वलं प्रभाभासुरत्वात् ‘दावतारम्' / जिनराजिः किं कुर्वती ? / ‘कृतवती' निष्पादयती / कं कर्मतापन्नम् ? / 'अवतारं' जन्म / कस्याम् ? / 'भुवि' पृथिव्याम् / कया ? | भव्याःभविकाः तेषां उद्धृतिः-उद्धरणं भव्योद्धृतिः तया ‘भव्योद्धृत्या' / धर्मचक्रं किं कुर्वत् ? / 'रञ्जयत्' अनुकुर्वत्-रागी-कुर्वत् / कं कर्मतापन्नम् ? / 'रविं' सूर्यम् / पुनः किंविशिष्टं धर्मचक्रम् ? | इता गता रोगा यस्मात् तद् ‘इतरुग्' / अवतारधर्मचक्रयोः चत्वार्यपि विशेषणान्यवगम्यानि / इति पदार्थः / / अथ समासः-जननं च ज्यानिश्च जननज्यानी, जननज्यान्योर्हानिः जननज्यानिहानिः, जनिता जननज्यानिहानिर्यया सा जनितजननज्यानिहानिः / सद्भ्यो हितं सत्यं, सत्यस्य अगारं सत्यागारं, तत् सत्यागारम् / जयं ददातीति जयदः, तं जयदम् / इता-गता रुजः-रोगा यस्मात् तद् इतरुक् / अरविन्दै: सहिता सारविन्दा | अवतीर्यते इत्यवतारः, तं अवतारम् / भवाय योग्या भव्याः, भव्यानां उद्धृतिः (भव्योद्धृतिः) तया भव्योद्धृत्या / धर्मस्य धर्मार्थं वा चक्रं धर्मचक्रं, तद् धर्मचक्रम् / त्यागेन सहिता सत्यागा / रञ्जयतीति रञ्जयत् / न मिता अमिता अमिता रुक्-कान्तिः यस्य स अमितरुक् / दाववत् तारं दावतारम् / आली-पाली-सखी-श्रेणी-राजी-पंक्ती-वीथी इत्यादयः शब्दा दीर्घईकारान्ताः [इति] शब्दार्णवे सन्ति / / इति द्वितीयवृत्तार्थः / / 30 / / (4) दे० व्या०-जीयादिति / जिनानां-तीर्थंकराणां या राजी-परम्परा जीयात्-जयतात् इत्यन्वयः / 'जि जये' धातुः / ‘जीयात्' इति क्रियापदम् / का की ? / राजी / केषाम् ? | जिनानाम् / किंविशिष्टा राजी ? / 'जनितजननज्यानिहानिः' जननं-जनिः ज्यानिः-जरा अनयोः पूर्वं 'द्वन्द्वः', जनिता-उत्पादिता जननज्यान्योः हानिः-विनाशो यया सा तथेति समासः / पुनः किंविशिष्टा ? | ‘इतरुक्' इता-गता रुकरोगो यस्याः सा तथा / पुनः किंविशिष्टा ? / 'सारविन्दा' अरविन्दं-कमलं तेन सह वर्तमाना, मार्गे देव१. अत्र दीर्घ 'ई' कारान्तः पाठः समुचितोमूलस्तुत्यां तस्य तादृशस्वरुपात् /