________________ 126 शोभनस्तुति-वृत्तिमाला (2) सि० वृ०-जीयादिति / जिनानां-तीर्थकृतां सा राजी श्रेणी जीयात्-जयत्वित्यर्थः / 'जि जये' धातोः ‘आशीःप्रेरणयोः' (सा० सू०७०३) इत्याशिषि यादौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'ये' (सा० सू०७७९) इति सूत्रेण दीर्घः / तथा च 'जीयात्' इति सिद्धम् / अत्र 'जीयात्' इति क्रियापदम् / का की ? | राजी / केषाम् ? | जिनानाम् / कथंभूता राजी ? | ‘जनितजननज्यानिहानिः' जनिताकृता जननानां-लोकानां ज्यानेः-जरायाः हानिः-विनाशो यया सा तथा / यद्वा जननं च ज्यानिश्च जननज्यानी-जन्मजरसी ‘इतरेतरद्वन्द्वः', ततः जनिता-उत्पादिता जननज्यान्योर्हानिर्यया सा तथेत्यर्थः / पुनः कथंभूता ? | 'सत्यागारं' सत्यस्य-सूनृतस्य अगारं-गृहम्, अजहल्लिङ्गोऽयम् / पुनः कथंभूता ? | 'इतरुक्' इता-गता रुजो-रोगा यस्याः सा इतरुक् / पुनः कथंभूता ? / 'सारविन्दा' अरविन्दै:देवविरचितकनककमलैः सह वर्तते या सा सारविन्दा | पुनः कथंभूता ? / कृतवती-विहितवती / किं कर्म ? / अवतारं-जन्मग्रहणम् / कस्याम् ? भुवि-पृथिव्याम् / कया ? / 'भव्योद्धृत्या' भव्यानांमोक्षप्रापणयोग्यसत्त्वानां उद्धृतिः-उद्धरणं भवोद्धरणरूपा तया हेतुभूतया / पुनः कथंभूता? | 'सत्यागा' सह त्यागेन-दानेन वर्तते या सा सत्यागा / सेति तच्छब्दसम्बन्धाद् यच्छब्दघटनामाह-या जिनानां राजी 'धर्मचक्रं' धर्मसमयोत्पन्नं रथाङ्गं अवहत्-बभारेत्यर्थः / ‘वह प्रापणे' धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् / 'वावसाने' (सा० सू०२४०) दस्य तकारः / इकार उच्चारणार्थः / 'दिबादावट' (सा० सू०७०७) इत्यट् / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / तथा च 'अवहत्' इति सिद्धम् / अत्र ‘अवहत्' इति क्रियापदम् / का कर्जी ? या / किं कर्मतापन्नम् ? | धर्मचक्रम् / 'जयदं' जयं-अभ्युदयं ददाति तद् जयदम् / इदमवतारस्यापि विशेषणं घटते / धर्मचक्रं किं कुर्वत् ? / 'रञ्जयत्' रञ्जयन्तीति रञ्जयत्-रक्तीकुर्वत् / कं कर्मतापन्नम् ? / रविं-सूर्यम् / यतः कथंभूतं धर्मचक्रम् ? / 'दावतारं' दावःवनवह्निः तद्वत् तारम्-उज्ज्वलम् / “दवो दाव इवाख्यातो, वनाग्निवनयोरपि” इति विश्वः / “दवदावौ वनारण्यवही” इत्यमरः (श्लो० 2747) / “दवो दावो वनवह्निः” इति हैमः (का० 4, श्लो० 167) / धर्मचक्रस्य रक्तप्रभासम्पर्कात् सहस्रकिरणोऽपि रक्तिमानं भजतीति भावः / पुनः कथंभूतम् ? | 'अमितरुक्' अमिता-इयत्तानवच्छिन्ना सा चासौ रुग्-द्युतिर्यस्य स तथा / अथवा रञ्जयदमितरुगित्यक्षतमेव धर्मचक्रस्य विशेषणम् / सारविन्देति च जिनराज्या विशेषणम् / तदा चायमर्थःरञ्जयन्ती-जनानां रागमुत्पादयन्ती अमिता रुग् यस्य तत् तथा / सारं-बलं विन्दते-लभले इति सारविन्दा / वतेति विस्मये / “खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत” इत्यमरः (श्लो० 2823) / कथम् ? / अरं-शीघ्रम् / “अरं शीघे च चक्राङ्गे, शीघ्रगे पुनरन्यवत्” इति विश्वः / / 30 / /