________________ श्रीचन्द्रप्रभजिनस्तुतयः 125 ज० वि०-जीयादिति / जिनानां-तीर्थकृतां सा राजी-श्रेणी जीयात्-जयत्विति क्रियाकारकसंयोगः / अत्र 'जीयाद्' इति क्रियापदम् / का की ? 'राजी' / केषां ? 'जिनानाम्' / राजी कथंभूता ? 'जनितजननज्यानिहानिः' जनिता-कृता जननाना-लोकानां ज्यानेः-जरायाः हानिः-विनाशो यया सा तथा / पुनः कथं० ? 'सत्यागारं' सत्यस्यागारं-गृहम् / पुनः कथं० ? इतरुक्' इता-गताः रुजो-रोगाः यस्याः सा तथा / पुनः कथं० ? 'सारविन्दा' सह अरविन्दैः-सुरनिर्मितनवकनककमलैः वर्तते या सा तथा / पुनः कथं० ? 'कृतवती' विहितवती / कं कर्मतापन्नम् ? 'अवतारं' जन्मग्रहणम् / कस्यां ? 'भुवि' पृथिव्याम् / कया ? ‘भव्योद्धृत्या' भव्यानां-भव्यप्राणिनां उद्धृतिः भवोत्तारणरूपा तया हेतुभूतया / पुनः कथं ? 'सत्यागा' सह त्यागेन-दानेन वर्तते या सा तथा / सेति तच्छब्दसंबन्धी यच्छब्दघटनामाह-या जिनानां राजी 'धर्मचक्रं' धर्मसमयोत्पन्नं रथाङ्गम् अवहत्-वभारेति क्रियाकारकयोजना / अत्र ‘अवहत्' इति क्रियापदम् / का कर्जी ? 'या' / किं कर्मतापन्नम् ? 'धर्मचक्रम्' / कथंभूतम् धर्मचक्रम् ? 'जयदं' अभ्युदयदायि / इदमवतारस्यापि विशेषणं घटते / धर्मचक्रं किं कुर्वत् ! 'रञ्जयत्' रक्तीकुर्वत् / कं कर्मतापन्नम् ? 'रविं' सहस्रकिरणम् / पुनः कथंभूतं धर्मचक्रम् ? 'दावतारं' दावो-वनवह्निः “दवो दावो वनवह्निः” इत्यभिधानचिन्तामणिवचनात् ( का०४, श्लो० 167) तद्वत् तारंउज्ज्वलम् / अत्रायं भावः-धर्मचक्रस्य रक्तप्रभा व्योम्नि प्रसरति, तस्याः संपर्कात् सहस्रकिरणोऽपि रक्तिमानं भजतीति / पुनः कथं० ? अमितरुक्’ अमिता अपरिमिता रुक्-द्युतिर्यस्य तत् तथा / अथवा 'रञ्जयदमितरुक्' इत्यक्षतमेव धर्मचक्रस्य विशेषणम् / सारविन्देति च जिनराज्या विशेषणम् / तदा चायमर्थः-रञ्जयन्ती-जनानां रागमुत्पादयन्ती अमिता रुक् यस्य तत् तथा / सारं-बलं विन्दते-लभत इति ‘सारविन्दा' / बतेति विस्मये / 'अरं' शीघ्रम् / एतद्व्याख्यानपक्षे तु येति यच्छब्दस्य सहचारी सेति तच्छब्दोऽध्याहार्यः / / अथ समासः-जननं च ज्यानिश्च जननज्यानी 'इतरेतरद्वन्द्वः' / जननज्यान्योर्हानिर्जन० 'तत्पुरुषः' / जनिता जननज्यानिहानिर्यया सा जनितज० ‘बहुव्रीहिः' / सत्यस्य अगारं सत्यागारं 'तत्पुरुषः' / जयं ददातीति जयदः 'तत्पुरुषः' / तज्जयदम् / इता रुजो यस्याः सा इतरुक् ‘बहुव्रीहिः' / सह अरविन्दैवर्तते या सा सारविन्दा 'तत्पुरुषः' / भव्यानामुद्धृतिः भव्योद्धृतिः 'तत्पुरुषः' / तया भव्यो० / धर्मेणोपलक्षितं चक्रं धर्मचक्रं 'तत्पुरुषः' / सह त्यागेन वर्तते या सा सत्यागा ‘तत्पुरुषः' / अमिता रुक् यस्य तद् अमितरुक् ‘बहुव्रीहिः' / दाववत् तारं दावतारं 'तत्पुरुषः' / तद् दावतारम् / अथवा अमिता चासौ रुक् च अमितरुक् ‘कर्मधारयः' / रञ्जयन्ती अमितरुग् यस्य तद् रञ्जयद० 'बहुव्रीहिः' / सारं विन्दतीति सारविन्दा 'तत्पुरुषः' / / इति काव्यार्थः / / 30 //