________________ 124 शोभनस्तुति-वृत्तिमाला यत्र स तथा, एवंविधः प्रकटितः-प्रकाशितः अर्थानां नित्यत्वात् (?) अनेकान्तः-स्याद्वादो येन स तस्यामन्त्रणम् / ‘असमान !' इति / नास्ति सर्वेभ्यः उत्कृष्टत्वात् समानः-सदृशो यस्य तस्यामन्त्रणम् / एतानि सर्वाणि भगवतः सम्बोधनपदानि / इति प्रथमवृत्तार्थः / / 29 / / ध० टीका-तुभ्यमिति / तुभ्यं चन्द्रप्रभजिन ! नमः / चन्द्रप्रभनामन् जिन ! नमोऽस्तु / 'तामसोज्जृम्भितानां' तामसानि-तमःसम्बन्धीनि यानि उज्जृम्भितानि-विस्फूर्जितानि तेषाम् / ‘हाने' अपगमे / ‘कान्तानलसम !' स्निग्धज्वलनसदृश ! / 'दयावन् !' कृपयान्वित ! / 'दितायासमान !' खण्डितखेदगर्व ! / 'विद्वत्पङ्क्त्या ' पण्डितश्रेण्या / ‘प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !' पृथवःवितताः स्पष्टाः-स्फुटाः दृष्टान्ताः-निदर्शनानि हेतवः-कारणानि ऊहाः-वितर्काः अनेकान्तः-स्याद्वादः, पृथवः स्पष्टाः दृष्टान्तहेतूहा यस्मिन् स चासावनेकान्तश्च प्रकटितः पृथुस्पष्टदृष्टान्तहेतूहानेकान्तो येन तस्यामन्त्रणम् / ‘अनलसमदया' अनलसो मदो यस्यास्तया / 'वन्दिताय' स्तुताय / 'असमान !' अनन्यसदृश ! / हे चन्द्रप्रभ जिन ! विद्वत्पङ्क्त्या वन्दिताय तुभ्यं नम इति योगः / / 29 / / अवचूरिः / हे चन्द्रप्रभ जिन, हे दयावन् (कृपावन) ! तुभ्यं नमोऽस्तु | तमःसंबन्धिविस्फूर्जितानां हाने त्यागे मनोहरवह्निसमान ! / दितौ-छिन्नावायासमानौ येन / तुभ्यं किंभूताय ? / विद्वत्पङ्क्त्या वन्दिताय | प्रकटिताः पृथवो-वितताः स्पष्टा दृष्टान्ता-निदर्शनानि हेतवः-करणानि ऊहो-वितर्कः अनेकान्तःस्याद्वादो येन तत्संबोधनम् / विद्वत्पङ्क्त्या किंभूतया ? / न विद्यतें अलसमदौ-तन्द्राऽहंकारौ यस्यास्तया / हे असमान निरुपमान ! / / 29 / / & जिनेश्वराणां नुतिः जीयाद् राजी जनितजननज्यानिहानिर्जिनानां ___ सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् / भव्योवृत्या भुवि कृतवती याऽवहद् धर्मचक्रं सत्यागा रञ्जयदमितरुक् सा रविं दावतारम् // 2 // 30 // . - मन्दा० 1. 'सारविन्दा वतारम्' इत्यपि पदच्छेदः समीचीनः /