________________ श्रीचन्द्रप्रभजिनस्तुतयः 123 ++++++++++++++++++++++++++++++ अनेकान्तः प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तः तस्य सं० हे 'प्रकटितपृथुस्पष्ट-दृष्टान्तहेतूहानेकान्त !' / हे ‘अनलस' हे सोद्यम ! / एतादृशाय चन्द्रप्रभाय जिनाय नमः / इति पदार्थः / / अथ समासः-चन्द्रवत् प्रभा यस्य स चन्द्रप्रभः, चन्द्रप्रभश्चासौ जिनश्च चन्द्रप्रभजिनः, तस्य सं० हे चन्द्रप्रभजिन ! / तमसः इमानि तामसानि, तामसानां उज्जृम्भितानि तामसोज्जृम्भितानि, तेषां तामसोज्जृम्भितानाम् / कान्तश्चासौ अनलश्च कान्तानलः, कान्तानलस्य समः कान्तानलसमः, तस्य सं० हे कान्तानलसम ! / दया विद्यते यस्य असौ दयावान्, तस्य सं० हे दयावन् ! / आयासश्च मानश्च आयासमानौ, दितौ आयासमानौ येन स दितायासमानः, तस्य सं० हे दितायासमान ! / विवेद इति विद्वान्, विदुषां पंक्तिः विद्वत्पंक्तिः, तया विद्वत्पंक्तया / दृष्टान्ताश्च हेतवश्च ऊहाश्च दृष्टान्तहेतूहाः, स्पष्टा दृष्टान्तहेतूहाः स्पष्टदृष्टान्तहेतूहाः, पृथवश्च ते स्पष्टदृष्टान्तहेतूहाश्च पृथुस्पष्टदृष्टान्तहेतूहाः, प्रकटिताः स्पष्टदृष्टान्तहेतूहाः यस्मिन् स् प्रकटितस्पष्टदृष्टान्तहेतूहः, प्रकटितपृथुस्पष्टदृष्टान्तहेतूहश्चासौ अनेकान्तो यस्य [स] यस्मिन् वा (स) प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तः, तस्य सं० हे प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त ! / अलसश्च मदश्च अलसमदौ, न विद्येते अलसमदौ यस्याः सा अनलसमदा, तया अनलसमदया / नास्ति समानो यस्य सः असमानः, तस्य सं० हे असमान ! / यद्वा नास्ति अलसमदौ यस्य सः अनलसमदः, तस्य सं०.हे अनलसमद ! ‘यावन्दिताय' यया-लक्ष्या लक्ष्मणामात्रा वा वन्दितः, तस्मै यावन्दिताय / इत्यपि छायार्थः / / इति प्रथमवृत्तार्थः / / 29 / / अस्मिन् वृत्ते मन्दाक्रान्ताच्छन्दः / / ... दे० व्या०-तुभ्यमिति / हे चन्द्रप्रभ ! जिन ! तुभ्यं नमः-नमस्कारः, अस्त्वित्यध्याहारः / किंविशिष्टाय तुभ्यम् ? / वन्दिताय-नमस्कृताय / कया ? / 'विद्वत्पङ्क्त्या' विदुषां-पण्डितानां पंक्तिःश्रेणिः तया / किंविशिष्टया विद्वत्पङ्क्त्या ? / 'अनलसमदया' अलसः-आलस्यं मदो-मुद् मोहसंभेदः अनयोः पूर्वं द्वन्द्वः', ततो न स्तः अलसमदौ यस्याः सा तथेति समासः / 'दयावन् !' इति / दया-कृपा अस्त्यस्मिन्निति दयावान्, तस्यामन्त्रणम् / ‘कान्तानलसम !' इति / कान्तः-कमनीयो जाज्वल्यमान इति यावत् यः अनलः-वह्निः तेन समः-तुल्यो यः स तस्यामन्त्रणम् / कस्मिन् ? / हाने-विनाशने / केषाम् ? / 'तामसोज्जृम्भितानाम्' तमः सम्बन्धिविस्फूर्जितानाम्, तमः सम्बन्धीनि तामसानि तानि च तानि उज्जृम्भितानि चेति ‘कर्मधारयः' तेषाम् / 'दितायासमान !' इति / आयासः-संसारखेद: मानःचित्तोन्नतिः अनयोः पूर्वं 'द्वन्द्वः' तेन दितौ छिन्नौ आयासमानौ येन स तस्यामन्त्रणम् / “लूने छिन्नं छितं दितम्” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 125) / 'प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !' इति / पृथवो वितताः स्पष्टाः-सम्यगवबोध्याः दृष्टान्ता-उदाहरणानि हेतवः-साध्यगमकाः ऊहा-वितर्काः 1. अयं पाठश्चिन्तनीयः /