________________ 122 शोभनस्तुति-वृत्तिमाला अलसशब्देन धर्मी आलस्यशब्देन च धर्मः, यदाह- आलस्यः शीतकोऽलसः” (अमर० श्लो० 1965) तथा “आलस्यं तन्द्रा कौसीचं” (अभि० का० 2, श्लो० 229) इति दर्शनाच्च तथापि धर्मधर्मिणोः कथंचिदभेदादलसशब्देनाप्यालस्यमेव प्रतिपाद्यमिति सर्वं समञ्जसम् / अपराणि सर्वाण्यपि श्रीचन्द्रप्रभस्य सम्बोधनानि / तेषां त्वेवं व्याख्या-हे ‘कान्तानलसम !' कान्तः-कमनीयः यः अनलःवह्निः तेन समः-सदृशस्तस्य सम्बोधनं हे कान्ता० / कस्मिन् ? / हाने-विनाशने / केषाम् ? / 'तामसोज्जृम्भितानां' तामसानि-तमः सम्बन्धीनि यानि उज्जृम्भितानि-विस्फूर्जितानि तेषाम् / हे 'दयावन् !' दया-घृणा विद्यते यस्यासौ दयावान्, तस्य सम्बोधनं हे कृपयान्वित ! / हे 'दितायासमान !' आयासः-खेदः मानः-गर्वः, आयासश्च मानश्च आयासमानौ ‘इतरेतरद्वन्द्वः', [दितौ-खण्डितौ आयासमानौ येन तस्य सम्बोधनं हे दिता० / हे ‘प्रकटितपृथुस्पष्टदृष्टान्तहेतू० !'] पृथवश्च ते स्पष्टाश्च पृथुस्पष्टाः 'कर्मधारयः', पृथुस्पष्टाश्च ते दृष्टान्तहेतूहाश्च पृथुस्पष्टदृष्टान्तहेतूहाः ‘कर्मधारयः', ततः प्रकटिताः पृथुस्पष्टदृष्टान्तहेतूहाः येन इति ‘बहुव्रीहिः' / पर्वतोऽयं वह्रिमानिति प्रतिज्ञा / धूमादिति हेतुः / यो धूमवान् सोऽग्निमान् यथा महानसं इत्युदाहरणम् / अनेनैवंविधेनावश्यं भवितव्यमित्याकारक उत्कटकोटिकः संशय एव ऊह इत्यन्यत्र विस्तरः / हे 'असमान !' न विद्यते समानो यस्य सः असमानः 'बहुव्रीहिः' तस्य सम्बोधनं हे असमान इत्यर्थः / / 29 / / . (3) सौ० वृ०-यः शोभनपार्थो भवति तस्य चन्द्रवत् प्रभा भवति / अनेन संबन्धेन आयातस्य श्रीचन्द्रप्रभनामाष्टमजिनस्य स्तुतेरों निर्णीयते / तुभ्यमिति / हे चन्द्रप्रभ !-हे चन्द्रकान्ते ! धवलवर्णत्वात् सौम्यत्वाच्च / हे जिन ! ते-तुभ्यं नमः अस्तु इत्यन्वयः / 'अस्तु' इति क्रियापदम् / किं कर्तृ ? 'नमः' प्रणामः / अस्तु' भवतु / कस्मै ? / 'तुभ्यम्' / किंभूताय तुभ्यम् ? / 'वन्दिताय' स्तुताय प्रणमिताय / कया ? / 'विद्वत्पंक्त्या' पण्डितश्रेण्या / किंभूतया विद्वत्पंक्त्या ? / नास्ति अलसंआलस्यम् मदो-दर्पः यस्याः सा अनलसमदा तया ‘अनलसमदया' / हे 'दयावन् !' हे कृपायुक्त ! / हे 'असमान !' हे निरुपम ! / कान्तो-दीप्यमानः यः अनलो-वह्निः तस्य समः-सदृक्षः कान्तानलसमः तस्य संबोधनं हे ‘कान्तानलसम !' / कस्मिन् ? / 'हाने'अपगमे / केषाम् ? | 'तामसोज्जृम्भितानाम्' तामसानां-अज्ञानमिथ्यात्वतिमिराणां यानि उज्जृम्भितानि-प्रफुल्लितानि तामसोज्जृम्भितानि तेषां, तामसोज्जृम्भितानां हाने-अपगमे दीप्तवह्रिकल्प ! इत्यर्थः / हे 'दितायासमान !' दितः-छेदितः आयासःप्रयासः मानः-अहंकारो येन स दितायासमानः, तस्य सं० हे दितायासमान ! / प्रकटिता-स्पष्टीभूता पृथवः-विस्तीर्णाः स्पष्टाः-प्रकटाः दृष्टान्ताः-संबन्धा उपनया वा हेतवः-कारणानि ऊहा-वितर्काः यस्मिन् स तादृशो योऽनेकान्तः-स्याद्वादः-एकस्मिन् वस्तुनि अनेकधर्मप्रतिभासनं श्रद्धानं वदनं स्याद्वाद: