________________ श्रीचन्द्रप्रभजिनस्तुतयः 121 अपगमे / केषाम् ? 'तामसोज्जृम्भिताना' तामसानि-तमःसंबन्धीनि यानि उज्जृम्भितानि-विस्फूर्जितानि तेषाम् / हे 'दयावन् !' कृपयान्वित ! / हे 'दितायासमान !' आयासः-खेदः मानो-गर्वः तौ दितौ खण्डितौ येन स तथा तत्संबो० हे दिता० / हे ‘प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !' पृथवो वितताः स्पष्टाःस्फुटाः दृष्टान्ता-निदर्शनानि हेतवः-कारणानि ऊहाः-वितर्काः अनेकान्तः-स्याद्वादः, ततः पृथवः स्पष्टाः दृष्टान्तहेतूहा यस्मिन् स तादृशः अनेकान्तः स प्रकटितः-प्रकाशितो येन स तथा तत्संबोधनं हे प्रकटित० / हे 'असमान !' अनन्यसदृश ! / यद्वा मानः-पूजा तेन सह वर्तमान ! / ___ अथ समासः-चन्द्रवत् प्रभा यस्य स चन्द्रप्रभः तत्पुरुषः' / चन्द्रप्रभश्चासौ जिनश्च चन्द्रप्रभजिनः 'कर्मधारयः' / तत्संवोधनं हे चन्द्रप्रभ० / तमस इमानि तामसानि / तामसानि च तानि उज्जृम्भितानि च तामसोज्जृम्भितानि 'कर्मधारयः' / तेषां तामसो० / कान्तश्चासावनलश्च कान्तानलः ‘कर्मधारयः' / कान्तानलस्य समः कान्ता० 'तत्पुरुषः' / [तत्सं० हे कान्ता० / ] हे दितायासमान ! आयासश्च मानश्च मानं च वा आयासमानौ आयासमाने वा 'इतरेतरद्वन्द्वः' / दितौ दिते वा आयासमानौ आयासमाने वा येन स दितायासमानः ‘बहुव्रीहिः' / तत्संबो० हे दिता० / विदुषां पंक्तिर्विद्वत्पंक्तिः 'तत्पुरुषः' / तया विद्व० / पृथवश्च ते स्पष्टाश्च पृथुस्पष्टाः ‘कर्मधारयः' / दृष्टान्ताश्च हेतवश्च ऊहाश्च दृष्टान्तहेतूहाः ‘इतरेतरद्वन्द्वः' / पृथुस्पष्टा दृष्टान्तहेतूहा यस्मिन् (स) पृथुस्प० 'बहुव्रीहिः' / पृथुस्पष्टदृष्टान्तहेतूहश्चासावनेकान्तश्च पृथुस्पष्ट० 'कर्मधारयः' / प्रकटितः पृथुस्पष्टदृष्टान्तहेतूहानेकान्तो येन स प्रकटितपृथु० 'बहुव्रीहिः' / तत्संबोधनं हे प्रकटितपृथु० / अलसश्च मदश्च अलसमदौ ‘इतरेतरद्वन्द्वः' / न विद्यते अलसमदौ यस्याः सा अनलसमदा ‘बहुव्रीहिः' / तया अनलस० / न विद्यते समानो यस्य सोऽसमानः ‘बहुव्रीहिः' / यद्वा संह मानेन वर्तते यः स समानः 'तत्पुरुषः' / तत्संबो० हे असमान (?) ! / / इति काव्यार्थः / / 29 / / * सि० वृ०-तुभ्यमिति / चन्द्रस्येव सौम्या प्रभा यस्येति चन्द्रप्रभः / गर्भस्थेऽस्मिन् मातुश्चन्द्रपानदोहदोऽभूदिति चन्द्रप्रभः, स चासौ जिनश्च तस्य सम्बोधनं हे चन्द्रप्रभजिन ! / तुभ्यम्भवते नमः-नमस्कारः, अस्त्विति क्रियाध्याहारः / ततश्च ‘अस्तु' इति क्रियापदम् / किं कर्तृ ? नमः / नम इति नमस्कारार्थकमव्ययम् / कस्मै ? | तुभ्यम् / 'तुभ्यं मह्यं ङया' (सा० सू० 334) इति युष्मच्छब्दस्य चतुर्थंकवचने तुभ्यमित्यादेशः / कथंभूताय तुभ्यम् ? / वन्दिताय / ‘वदि अभिवादनस्तुत्योः' / कया ? / 'विद्वत्पङ्क्त्या ' विदुषां-धीमतां पंक्तिः-ततिः तया / कथंभूतया ? / 'अनलसमदया' अलसश्च मदश्च अलसमदौ ‘इतरेतरद्वन्द्वः, न विद्येते अलसमदौ-तन्द्राहंकारौ यस्याः सा तथा तया / अत्र यद्यपि 1. अयं पाठश्चिन्तनीयः / 2. अयं विग्रहोऽत्राऽत्यन्तोऽप्रासङ्गिकः, टीकायामसमानस्याऽनन्यसदृशेत्यर्थो व्याख्यायितः, अर्थन प्रस्तुतेनाऽयं विग्रहो विरुपो भासते।