________________ 120 शोभनस्तुति-वृत्तिमाला 8. श्रीचन्द्रप्रभजिनस्तुतयः अथ चन्द्रप्रभप्रभवे प्रणामःतुभ्यं चन्द्रप्रभ ! जिन ! नमस्तामसोज्जृम्भितानां हाने कान्तानलसम ! दयावन् ! दितायासमान ! / विद्वत्पङ्क्तया प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमदया वन्दितायासमान ! // 1 // 29 // . - मन्दाक्रान्ता (4, 6, 7) ज० वि०-तुभ्यमिति / हे चन्द्रप्रभजिन ! चन्द्रप्रभाभिध ! तीर्थंकर ! तुभ्यम्भवते नमो-नमस्कारः, अस्त्विति क्रियाऽध्याह्रियते / ततश्च ‘अस्तु' इति क्रियापदम् / किं कर्तृ ? 'नमः' / कस्मै ? 'तुभ्यम्' / कथंभूताय तुभ्यम् ? 'वन्दिताय' स्तुताय / कया ? 'विद्वत्पङ्क्त्या ' पण्डितश्रेण्या / कथंभूतया ? 'अनलसमदया' न विद्यते अलसमदौ-तन्द्राहंकारौ यस्याः सा तथा तया / अत्र यद्यपि अलसशब्देन धर्मी आलस्यशब्देन च धर्मः, “आलस्यः शीतकोऽलसः” (अमर० श्लो० 1965), तथा 'आलस्यं तन्द्रा कौसीचं' इत्यभिधानचिन्तामणिवचनात् (का० 2, श्लो० 229) तथापि धर्मधर्मिणोः कथंचिदभेदादलसशब्देनाप्यालस्यं प्रतिपाद्यते / अपराणि सर्वाण्यपि श्रीचन्द्रप्रभस्य संबोधनानि / तेषां चैवं व्याख्या-हे ‘कान्तानलसम !' कान्तः-कमनीयोऽनलो-वह्निः तेन सम !-सदृश ! / कस्मिन् ? 'हाने'