________________ श्रीसुपार्श्वजिनस्तुतयः 119 (4) दे० व्या०-दधतीति / हे महामानसि ! देवि ! इष्टान्-अभिमतान्, जनानिति शेषः, त्वं अव-रक्ष इत्यन्वयः / अव रक्षणे' इति धातुः / अव' इति क्रियापदम् / का की ? / त्वम् / कान् कर्मतापन्नान् ? / इष्टान् / हे गतवति !-प्राप्नुषि ! / कस्मिन् ? / 'वारणारौ' वारणानां-गजानां अरिः सिंहः तस्मिन्, सिंहवाहनत्वात् / हे दधति !-धारिके ! / किम् ? / रलं-मणिम् / 'आभास्तभास्वन्नवघनतरवारिम्' आभाकान्तिः तया अस्तः-तिरस्कृतो भास्वान्-दीप्यमानो नवः-प्रत्यग्रो घनो-मेघो येन एवंविधो यः तरवारिःखड्गः तम् / किंविशिष्टं तरवारिम् ? / 'घनतरवारिम्' अतिशयेन घनं घनतरं वारि-पानीयम् अर्थात् धारात्मकं यस्मिन् स तम् / किंविशिष्टं रत्नम् ? / 'रविसपलम्' रवेः-सूर्यस्य सपलं-प्रतिपक्षम्, प्रभाधिक्यात् / किं कुर्वत् ? / 'वारणारौ विकिरति !-विक्षिपति ! / काम् ? ।आलीं-श्रेणीम् / केषाम् ? ।अरीणांशत्रूणाम् / किंविशिष्टां आलीम् ! ‘रणारावरीणाम्' रणस्य-संग्रामस्य आरावण-शब्देन रीणां-खिन्नाम् / इति चतुर्थवृत्तार्थः / / मालिनीच्छन्दः / “वसुयतिरियमुक्ता मालिनी नौ मयौ यः” इति तल्लक्षणम् // 47 / 28 // . ध० टीका-दधतीति / 'दधति.!' धारयमाणे ! / 'रविसपलं' रवेः सपलभूतं, प्रभाधिक्यात् / 'रत्नं' माणिक्यम् / 'आभास्तभास्वन्नवघनतरवारिंवा' आभया-छायया अस्तभास्वन्नवघनः तिरस्कृततारतरुणमेघो यः तरवारिः-कृपाणस्तं वा / वाशब्द: समुच्चये / 'रणारावरीणां' रणसम्बन्धिना रावण रीणां-खिन्नाम् / 'गतवति !' आरूढे ! / 'विकिरति' विक्षिपति / एतत् सिंहस्य देव्या वा विशेषणम् / ‘आली' सन्ततिम् / 'महामानसि' ! महामानस्यभिधाने ! / 'इष्टान्' अभिमतान् / 'अव' रक्ष / 'घनतरवारिं' सान्द्रतरपानीयम् / 'वारणारौ' मृगपतौ / ‘अरीणाम्' हे महामानसि ! रविसपलं रलं घनतरवारिं वा दधति ! अरीणां आली विकिरति वारणारौ गतवति ! इष्टान् अवेत्यन्वयः // 47 / 28 // अवचूरिः हे महामानसि देवि ! इष्टानभिमतान् नरादीन् अव-रक्ष / हे गतवति प्राप्नुषि ! / कस्मिन् / वारणारौ सिंहे / हे दधति धारयति ! / किम् / रत्नं मणिम् / किंभूतम् / रविसपलं रविप्रतिपक्षं प्रभाधिक्यात् / आभया कान्त्या अस्तो भास्वान् सूर्यो येन स चासौ नवो नूतनो घनो निबिडस्तरवारिः खड्गश्च तम् / वा समुच्चये | सिंहे किं कुर्वति / अरीणां वैरिणामालीं श्रेणिं विकिरति क्षिपति / किंभूतामालीम् / रणस्यारावेण (ध्वनिना) रीणां क्षीणाम् / खड्गं किंभूतम् / घनतरवारिं सान्द्रतरपानीयम् / रनविशेषणं वा // 47 / 28 //