________________ 118 शोभनस्तुति-वृत्तिमाला तीक्ष्णता वा यत्र तथा तम् / हे गतवति !-आरूढे ! / कस्मिन् ? / 'वारणारौ' वारणानां-गजानां अरिः वारणारिः तस्मिन् वारणारौ / वारणारौ किं कुर्वति ? / विकिरति-विक्षिपति / कां कर्मतापन्नाम् ? | आलींश्रेणिम् / “आलिः पंक्तौ च संख्यायां-सेतौ च परिकीर्तिता / विशदायेऽपि स्यादालिः” इति विश्वः / केषाम् ? अरीणां-वैरिणाम् / कथंभूतां आलीम् ? / 'रणारावरीणां' रणारावेण-रणसम्बन्धिना आरावेण रीणां-खिन्नाम् / यद्वा रणारावरीणां अरीणां आलीं विकिरति इति देव्याः सम्बोधनमपि / मालिनीच्छन्दः “वसुयतिरियमुक्ता मालिनी नौ मयौ यः” इति च तल्लक्षणम् / / 28 / / // इति श्रीमहोपाध्यायश्रीभानु० श्रीसुपार्धजिनस्तुतिवृत्तिः समाप्ता // 4 / 7 / 28 // (3) सौ० वृ०-दधतीति / हे महामानसि-महामानसीनाम्नि ! देवि ! त्वं इष्टान्-अभिमतान् जनान् अव इत्यन्वयः / ‘अव' इति क्रियापदम् / का की ? | 'त्वम्' / 'अव' रक्षतात् / कान् कर्मतापन्नान् ? / 'इष्टान्' / हे 'दधति !' धारयति ! / किं कर्मतापन्नम् ? / 'रलं' माणिक्यम् / 'वा' समुच्चये / 'वा' अथवा नवो-नवीनो यो घनो-मेघः तद्वत् घनतरं वारि-पानीयं यत्र तत् तादृशः घनः-निबिडः तरवारिः-करवालं 'घनतर वारि (?)' / एकेन पाणिना रनं धारयति अपरेण पाणिना तरवारिं धारयतीति गम्यम् / कीदृशं रत्नम् ? / रविः-सूर्यः तस्य सपलं-प्रतिपक्षं प्रभाधिक्यत्वात् वृत्तत्वाद् वा / पुनः कीदृशं रत्नम् ? / आभाकान्तिः तया अस्तो-निराकृतः भास्वान्-सूर्यो येन तत् 'आभास्तभास्वत्' / पुनः हे महामानसि किं कुर्वति ? / 'विकिरति !' विक्षिपति ! / निराकृतवतीत्यर्थः / कां कर्मतापन्नाम् ? | ‘आलीं' श्रेणीम् / केषाम् ? / 'अरीणां' शत्रूणाम् / कीदृशी आलीम् ? / रणः-संग्रामः तस्य आरवः-शब्दः तेन रीणा-क्षीणा तां ‘रणारावरीणां' संग्रामे निःशब्दाम् / इति पदार्थः / / . अथ समासः-दधातीति दधती, तस्याः सं० हे दधति ! / रवेः सपनं रविसपलम् / आभया अस्तो भास्वान् येन तत् आभास्तभास्वत् / नवश्चासौ घनश्च नवघनः, अतिशयेन नवघनं इति नवघनतरम्, नवघनतरं वारि यस्मिन् स नवघनतरवारिः, तं नवघनतरवारिम् / रणस्य आरावः रणारावः, रणारावेण रीणा रणारावरीणा, तां रणारावरीणाम् / विकिरतीति विकिरती, तस्याः सं० हे विकिरति ! महत् मानसं यस्याः सा महामानसी, तस्याः सं० हे महामानसि ! घनश्चासौ तरवारिश्च घनतरवारिः, तं घनतरवारिम् / वारणस्य अरिः वारणारिः, तस्मिन् वारणारौ / / इति चतुर्थवृत्तार्थः / / 28 / / श्रीसुपार्श्वजिनेन्द्रस्य, स्तुतेरर्थो लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना / / // इति सुपार्धजिनस्तुतिवृत्तिः // 4 / 7 / 28 //