________________ श्रीसुपार्धजिनस्तुतयः 117 येन एवंविधो यस्तरवारिः-खड्गः तम् / अत्र वाशब्द: समुच्चये / रलं आभास्तभास्वन्नवघनतरवारिं चेत्युभयमपि दधतीत्यर्थः / रलं कथंभूतम् ? 'रविसपत्न' रवेः-सूर्यस्य सपलं-विपक्षभूतं प्रभाधिक्यात् / आभास्तभास्वन्नवघनतरवारिं कथंभूतम् ? 'घनतरवारिं' घनतरं-सान्द्रतरं वारि-पानीयं-तेजो यत्र स तथा तम् / हे 'गतवति !' आरूढे ! / कस्मिन् ? 'वारणारौ' गजवैरिणि केसरिणीत्यर्थः / वारणारौ किं कुर्वति ? 'विकिरति' विक्षिपति / कां कर्मतापन्नाम् ? 'आली' श्रेणीम् / केषां ? 'अरीणां' वैरिणाम् / आली कथंभूताम् ? 'रणारावरीणां' रणसम्बन्धिना रावण-ध्वनिना रीणां-खिन्नाम् / यद्वा रणारावरीणां अरीणां आली विकिरतीति देव्याः सम्बोधनमपि / / ___ अथ समासः-रवेः संपलं रविसपलम् 'तत्पुरुषः' / नवश्चासौ घनश्च नवघनः ‘कर्मधारयः' / भास्वांश्चासौ नवघनश्च भास्व० 'कर्मधारयः' आभया अस्तः आभास्तः 'तत्पुरुषः' / आभास्तः भास्वन्नवघनः येन स आभा० ‘बहुव्रीहिः' / आभास्तभास्वन्नवघनश्चासौ तरवारिश्च आभास्त० 'कर्मधारयः' / तं आभास्त० / रणस्यारावो रणारावः 'तत्पुरुषः' / रणारावेण रीणा रणा० 'तत्पुरुषः' अतिशयेन घनं घनतंरम् / घनतरं वारि यत्र स घनतरवारिः ‘बहुव्रीहिः' / तं घन० वारणानां अरिः वारणारिः ‘तत्पुरुषः' / तस्मिन् वारणारौ / इति काव्यार्थः / / 28 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीसुपार्धजिनस्तुतेर्व्याख्या // 4 / 7 / 28 // सि० वृ०-दधतीति / हे महामानसि !-महामानसीनामिके ! त्वं इष्टान्-अभिमतान् अवरक्षेत्यर्थः / 'अव रक्षणे' धातोः ‘आशीःप्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / 'अतः' (सा० सू० 705) इति हेर्लुक् / 'स्वरहीनं०' (सा० सू० 36). / तथा च 'अव' इति सिद्धम् / अत्र ‘अव' इति क्रियापदम् / का कर्जी ? / त्वम् / कान् कर्मतापन्नान् ? / इष्टान् / अपराणि सर्वाणि महामानस्या देवतायाः सम्बोधनानि / तेषां चैवं व्याख्या-हे दधति !-धारयमाणे ! / किं कर्म ? / रत्नं-माणिक्यम् / “रत्नं स्वजातिश्रेष्ठेऽपि, मणावपि नपुसंकम्” इति मेदिनी / 'आभास्तभास्वन्नवघनतरवारिं वा' / अत्र वाशब्दः समुच्चये / तथा च रत्नं 'आभास्तभास्वन्नवघनतरवारिं चेत्युभयमपि दधतीत्यर्थः / आभा-कान्तिः तया अस्तः-निराकृतः भास्वन्नवघनः-दीप्यमाननूतनमेघो येन स एतादृशो यस्तरवारिः-खड्गस्तम् / “तरवारिर्मतः खड्गः” इति धरणिः / नवश्चासौ घनश्च नवघनः, भास्वांश्चासौ नवघनश्च भास्वन्नवघनः इति पूर्वं 'कर्मधारयः' / रत्नं कीदृशम् ? / 'रविसपलम्' सूर्यस्य सपत्नं-विपक्षं रविसपलं, प्रभाधिक्यादितिभावः / आभास्तभास्वन्नवघनतरवारिं कथंभूतम् ? / 'घनतरवारिं' अतिशयेन घनं घनतरं सान्द्रतरमित्यर्थः वारि-पानीयं तेजः