________________ 116 शोभनस्तुति-वृत्तिमाला ध० टीका-दिशदिति / 'दिशत् उपशमसौख्यं' ददत् प्रशमसुखम् / ‘संयतानां' संयमवताम् / 'सदैव' सर्वकालमेव / 'उरु' विशालम् / 'जिनमतं' अर्हच्छासनम् / ‘उदारं' उदात्तम् / 'काममायामहारि' कामं-अत्यर्थं आयामहारि-दैर्घ्यशोभि / 'जननमरणरीणान्' जन्ममृत्युभिः श्रान्तान् / 'वासयत्' स्थापयत् / ‘सिद्धिवासे' मुक्तिसद्मनि / 'अरुजि’ नीरोगे / 'नमत' प्रणमत / 'मुदा' हर्षेण / 'अरं' शीघ्रम् / 'काममायामहारि' कामश्च माया च तयोर्महारि-बृहत् अमित्रभूतं महाचक्रं वा निकर्तनहेतुत्वात् / / 27 / / (6) अवचूरिः हे जनाः ! जिनमतं नमत प्रणमत / किंभूतम् / उरु प्रौढं प्रशमसुखं ददत् / केषाम् / संयतानां मुनीनाम् / सदैव सर्वदा / उदारमुदात्तम् / काममत्यर्थम् / आयामहारि दैर्घ्यशोभि / अथवाऽतिशयेन मनोहरम् / अरुजि रोगरहिते सिद्धवासे वासं कारयत् / कान् / जन्ममरणखिन्नान् / मुदा हर्षेण / अरं शीघम् / काममाययोर्महारि महावैरिभूतम् / / 27 // . महामानस्याः स्तुतिःदधति ! रविसपत्नं रत्नमाभास्तभास्वन् नवधनतरवारिं वा रणारावरीणाम / गतवति ! विकिरत्याली महामानसीष्टा नव घनतरवारिं वारणारावरीणाम् // 4 // 28 // - मालिनी ज० वि०-दधतीति / हे महामानसि !-महामानसीनामिके ! त्वं इष्टान्-जिनशासनैकाग्रचित्तवृत्तित्वेन पालनीयतयाऽभिमतान् अव-रक्षेति क्रियाकारकसम्बन्धः / अत्र ‘अव' इति क्रियापदम् / का की ? 'त्वम्' / कान् कर्मतापन्नान् ? 'इष्टान्' / अपराणि सर्वाण्यपि महामानस्या देवतायाः सम्बोधनानि / तेषां चैवं व्याख्या हे 'दधति !' हे धारयमाणे / किं कर्मतापन्नम् ?. 'रलं' माणिक्यम् / 'आभास्तभास्वन्नवघनतरवारिं वा' आभया-कान्त्या अस्तो-निराकृतो भास्वन्नवघनो-दीप्यमाननूतनमेघो