________________ श्रीसुपार्थजिनस्तुतयः 115 गहनरूपं तेन हारि-शोभमानम् ‘आयामहारि' / पुनः जिनमतं किं कुर्वत् ? | ‘वासयत्' वासं ददत् / कस्मिन् ? / सिद्धिः अक्षयसुखप्राप्तिलक्षणा, सकलकर्माभावं मोक्षं तदेव वासं वसतिस्थानं सिद्धिशिलानामकं तस्मिन् ‘सिद्धिवासे' / कान् प्रति ? जननं-जन्म मरणं-मृत्युः ताभ्यां रीणा:-क्षीणाः जननमरणरीणाः तान् ‘जननमरणरीणान्' एवंविधान् जनान् / किंविशिष्टे सिद्धिवासे ? / 'अरुजि' अरोगे इत्यर्थः / पुनः किंविशिष्टं जिनमतम् ? / कामः-स्मरः माया कपटता तयोः महत् अरि-चक्रमिव चक्रम् / यद्वा महान् अरिः शत्रुरिव शत्रुः ‘काममायामहारि' / एवंविधं जिनमतं नमत इति पदार्थः / / अथ समासः-दिशतीति दिशत् / सुखस्य भावः सौख्यम्, उपशमस्य सौख्यं उपशमसौख्यम् / सम्यक् प्रकारेण यताः संयताः, तेषां संयतानाम् / जिनानां मतं जिनमतं, तद् जिनमतम् / आयामेन हारि आयामहारि / जननं च मरणं च जननमरणे, जननमरणाभ्यां रीणाः जननमरणरीणाः, तान् जननमरणरीणान् / वासयतीति वासयत् / सिद्धिरेव वासः सिद्धिवासः, तस्मिन् सिद्धिवासे / न विद्यन्ते रुजो-रोगा यस्मिन् तद् अरुक्, तस्मिन् अरुजि / कामश्च माया च काममाये, महत् च तद् अरि च महारि, काममाययोः महारि-चक्रमिव चक्रं काममायामहारि / यद्वा काममाययोः महान् अरिः-शत्रुरिव शत्रुः यत् तत् काममायामहारि / / इति तृतीयवृतार्थः / / 27 / / . (4) दे० व्या०-दिशदिति / हे जनाः ! यूयं जिनमतं-भगवत्सिद्धान्तं अरं-अत्यर्थं नमत-प्रणमतेत्यन्वयः / ‘णम प्रह्वीभावे' धातुः / 'नमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / किं कर्मतापन्नम् ? / 'जिनमतम्' जिनानां मतं जिनमतमिति विग्रहः / किं कुर्वत् जिनमतम् ? / दिशत्-ददत्। किम् ? / 'उपशमसौख्यम्' उपशमस्य-क्षमायाः सौख्यं-सुखम् / केषाम् ? / संयतानाम्-ऋषीणाम् / कथम् ? | सदैव-अनवरतम् / किंविशिष्टं जिनमतम् ? / उरु-प्रौढम् / पुनः किंविशिष्टम् ? / उदारं-स्फारम् / पुनः किंविशिष्टम् ? / 'काममायामहारि' कामं-अत्यर्थं आयामेन-विस्तारेण हारि-मनोहरम् / “दैर्घ्यमायाम आनाहः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 67) / पुनः किंविशिष्टम् ? / 'काममायामहारि' कामः-अनङ्गः माया-निकृतिः अनयोर्द्वन्द्वः, तयोः महारि-प्रकृष्टदुर्जेयम् / जिनमतं किं कुर्वत् ? / वासयत्वासं कारयत् / कान् ? / 'जननमरणरीणान्' जननं-जन्मग्रहणं मरणं-शरीरत्यागः अनयोर्द्वन्द्वः,ताभ्यां रीणान्-खिन्नान्, जनानिति शेषः / कस्मिन् ? / सिद्धिवासे मुक्तिमन्दिरे / कया ? / मुदा-हर्षेण / इति तृतीयवृत्तार्थः / / 27 / / 1. 'सकलकर्माभावो मोक्षः स एव वासः' इति प्रतिभाति /