________________ प्रकरणत्रयी [16] सप्तम्यां पृथिव्यां तमस्तमःप्रभायां धनुःपञ्चशतप्रमाणा नैरयिका ज्ञेयाः 7 / ततः परं व्युत्क्रमेणा झैनाः कायप्रमाणमाश्रित्य नारका ज्ञेयाः यावत् रत्नप्रभा नाम प्रथमा पृथ्वी स्यात् / अयम्भावः-षष्ठयां पृथिव्यां सार्दै द्वे धनुःशते देहप्रमाणं 6, पञ्चम्यां सपादशतधषि 5, चतुर्थी सार्द्धद्वापष्टिर्धनूंषि 4, तृतीयस्यां सपादैकत्रिंशद्धनूंषि 3, द्वितीयस्यां सार्द्धपञ्चदशधषि द्वादश चांगुलानि 2, प्रथमायां पृथ्व्यां सप्तधषि त्रयो हस्ताः षडंगुलानि देहमानं 1 इदं स्वाभाविकदेहप्रमाण मुक्तम् / उत्तरवैक्रियं त्वस्माद् द्विगुणं ज्ञेयम् // 29 // // इत्युक्तं नारकाणां देहमानम् // अथ पश्चेन्द्रियतिरश्चां तदाहजोयणसहस्समाणा, मच्छा उरगा य गब्भया हुंति / धणुअपुहुत्तं पक्खिसु भुयचारी गाउअपुहुत्तं // 30 // खयराधणुअपुहुत्तं भुयगा उरगा य जोयणपुहुत्तं / गाउअपुहुत्तमित्ता संमुच्छिमा चउप्पया भणिया // 32 // गर्भजाः संमृर्छिमाश्चेति सामान्यतो द्विविधास्तियश्चः। तत्र गर्भजा मत्स्याः च पुनर्गर्भजा उरगाः उरःपरिसा योजनसहस्रप्रमाणा देहमानेन भवन्ति / एतत्प्रमाणा मत्स्या स्वयंभूरमणसमुद्रे उरगा बहिींपेषु बोध्याः। तथा गर्भजाः पक्षिणो धनुःपृथक्त्वं नवधनुःप्रमाणदेहा इत्यर्थः / द्विप्रभृतिरानवभ्यः पृथक्त्वमुच्यते / तथा भुजपरिस गोधादयो गर्भजाः गव्यूतपृथक्त्वं देहमानेन भवन्ति // 30 // तथा संमृद्रिमाः खचराः पक्षिणो भुजगाः भुजपरिसाश्च धनुः मृथक्त्वं देहमानेन भवन्ति / संमूच्छिमा उरगा योजनपृथक्त्वं देहमानेन