________________ [15] जीवविचार वृ. अथैषां शरोरप्रमाणं तावदाहअंगुल असंखभागो, सरीरमे गिदियाण सव्वेसि / जोयणसहस्समहियं नवरं पत्तेयरुक्खाणं // 27 // सर्वेषां सूक्ष्मवादरपृथिव्यादिभेदभिन्नानामेकेन्द्रियाणां शरीरं अंगुलस्यासंख्येयभागप्रमाणं स्यात् / नवरं ति अयं विशेषः-प्रत्येकवृक्षाणां प्रत्येकवनस्पतीनां शरीरं योजनसहस्रमधिकं किश्चिदधिकसहस्रयोजनप्रमाणमित्यर्थः / एतच्च समुद्रादिषु उत्सेधांगुलेन योजनसहस्रावगाहजले पद्मनालादीनां बहिद्वीपेषु लतादीनां च बोध्यम् / किश्चिदत्र यद्यपि सामान्यतः सर्वेषां पृथ्व्यादीनां शरीरमंगुलासंख्येयभागमुक्तं तथापि संग्रहिण्यादिभ्यो विशेषतया ज्ञातव्यम् / अंगुलासंख्येयभागस्यासंख्यभेदत्वात् // 27 // एवमेकेन्द्रियाणां देहप्रमाणमुक्त्वा द्वान्द्रियादीनां तदाहबारस जोयण तिन्नेव गाउआ जोयणं च अणुकमसो / बेइंदिय तेइंदिय चउरिदिय देहमुच्चत्तं // 28 // ___ द्वादशयोजनानि द्वीन्द्रियाणां बहिः समुद्रवत्ति शंखादीनां, तथा त्रीण्येव गव्यूतानि त्रीन्द्रियाणां बहिद्वीपवर्तिकर्णशृगाल्यादीनां, तथा योजनं चैकं चतुरिन्द्रियाणां बहिद्वीपवर्तिभ्रमरादीनां / अनुक्रमशः अनुक्रमेण / देहमुच्चत्तंत्ति प्राकृतत्वेन विभक्तिव्यत्ययात् देहस्योच्चत्वम् / यद्वा देहं शरीरमुच्चत्वेन भगवता भणितमिति शेषः // 28 // अथ पञ्चेन्द्रियाणां नारकादीनां देहप्रमाणमाहधणुसयपंचपमाणा, नेरइया सत्तमाइपुढवीए / तत्तो अद्धद्रणा, नेया रयणप्पहा जाव // 29 // क्रमेण / देहरयाणां बहिद्वीपशृिगाल्यादीना