________________ जीवविचार वृ. स्युः / तथा संमूच्छिमाश्चतुष्पदा गव्यूतपृथक्त्वमात्रा नवगव्यूतप्रमाणदेहा भणिता उक्ताः / इह बहुषु पुस्तकेषु "उरगा भुयगाय जोयणपुहुत्तं" इति पाठो दृश्यते स चिन्त्यः प्रज्ञापनासंग्रहिण्यादिभिर्विरोधात् // 31 // अथावशिष्टगर्भजचतुष्पदतिरश्चां मनुष्याणां च देहमानमाह-- छच्चे गाउआई, चउप्पया गब्भया मुणेयव्वा / कोसतिगं च मणुस्सा, उक्कोससरीरमाणेणं // 32 // गर्भजाः चतुष्पदा. उत्कर्षतः षड्गव्यूतान्येव मन्तव्याः। चः समुच्चये / एतद्देवकुर्बादौ गर्भजगजानाश्रित्य बोधव्यम् / तथा गर्भजा मनुष्या उत्कृष्टशरीरप्रमाणेन कोशत्रिकोच्चा मन्तव्याः / इदमपि देवकुवदिौ युगलिकनरानाश्रित्य ज्ञेयम् // 32 // अथ देवानां स्वाभाविकदेहमानमाहईसागतसुराणं रयणीओ सत्त हुँति उच्चत्तं / दुगद्गद्गचउगेविज्जणुत्तरे इकिक्क परिहाणी // 33 // अत्रेशानान्तग्रहणेन भवनपतिव्यन्तरज्योतिष्कसौधर्मशाना ग्राहयाः। तेनेशानान्तं ईशाननाम द्वितीय देवलोकं यावत् सुराणां देवानां सप्त रत्नयः सप्त हस्ताः शरीरस्योच्चत्वं भवति / ततः परं द्विक 1 द्विक 2 द्विक 3 चतुष्क 4 ग्रैवेयक 5 अनुत्तरेषु 6 एकैकस्य हस्तस्य परिहारः न्यूनत्वं स्यात् / अयमर्थः--सनत्कुमारमाहेन्द्रद्विके षट् हस्ताः। ब्रह्मलान्तकद्विके पश्च / शुक्रसहस्रारद्विके चत्वारः / आनतादिचतुष्के त्रयः / नवग्रैवेयकेषु द्वौ हस्तौ / पञ्चानुत्तरेषु एक एको हस्तः / देहमानं सर्वेषां जीवानां देहप्रमाणमुत्सेधांगुलेन ज्ञेयम् // 33 //