________________ यति-जीतकल्पे निअअग्गपिंडि लहुगो सनिकायनिमंति सागरिअपिंडे / अमणुन्नं च इअ मणुन्नं भुंजणे भत्तपाणस्स / / . व्याख्या-नियतो-ध्रुवः शाश्वत इत्यर्थः / योऽग्रो-वरः प्रधानः, अथवा यः प्रथमं दीयते स नियताऽग्रपिण्डः / अथवा 'नोअम्गे 'तिपाठः / ततो नित्यम्-अनवरत योऽअपिण्डः-तत्क्षणोत्तीर्णोदनस्थाल्या अव्यापारितायाः शिखाकूरलक्षणः तस्मिन्नियताग्रपिण्डे नित्याऽग्रपिण्डे वा गृहीते लघुमासः / निकाचनं निकाचो-निबन्धः / निमन्त्रणं निमन्त्रो-निमन्त्रणा ततः सह निकाचेन वर्तते यो निमन्त्रः स सनिकाचनिमन्त्रः / अयमर्थः-गृही साधुं निमन्त्रयति-यथा भगवन् ! अनुग्रहं कुरु मम गृहे भक्तं गृहाण / ततः साधुभणति-करोम्यनुग्रहं परं किं दास्यसि ?, गृही भणति-येन तेऽर्थः, ततः साधुरुत्पीलन कुर्वन् भणति- गृहं गतस्य दास्यसि न वा ? , गृहीणा दास्यामीति भणिते साधुः परिमाणं कारयन् भणति-कियत् परिमाणं कियच्चिरं वा कालं दास्यसि ? , ततो गृही भणति यावन्मात्रण भक्तेन तेऽर्थो यावन्तं वा कालं तेऽर्थः, किंबहुना भणितेन ? यत्तुभ्यं रोचते द्रव्यं यावत्परिमाणं यावन्तं वा कालं तदपरिहीणमहमवश्य दास्यामीत्येवंविधा या निमन्त्रणा सा सनिकाचाऽवगन्तव्या। निकाचशब्देन चात्रोत्पीलनपरिमाणे .. गृह्यते / ततो निमन्त्रणोत्पीलनपरिमाणेषु विष्वपि मासलघु प्रायश्चित्तं भवति / अथवा प्रतिदिनं तवैतावन्मानं दास्यामि मद्गृहे नियमागन्तव्यमिति निमन्त्रितस्य नित्यं गृह्णतः सनिकाचनिमन्त्रणापिण्डो नित्यपिण्ड इत्यर्थः / ततः सनिकाचनिमन्त्रे-सनिकाचनिमन्त्रणापिण्डे लघुमासः / नन्वत्र स्वभावनिष्पन्नेऽप्योहारे गृह्यमाणे किं दूषणं ? येन प्रायश्चित्तापत्तिः / उच्यते, आत्मार्थनिष्पन्नोऽप्याहारो नियतदाननिमन्त्रणादिभिः सदोषः स्यात् / स्थापनादीनां दोषाणां सम्भवात् / ततो निमन्त्रणादिपिण्डस्त्याज्यः / सागारिकः-शय्यातरः / शय्यया-साधुसमर्पितगृहलक्षणया भवार्णवं तरतोतिव्युत्पत्तेः / तस्य पिण्डो वक्ष्यमाणलक्षणो न भोक्तव्यः / तस्मिन् सागारिकपिण्डे गृहीते लघुमासः प्रायश्चित्त भवति / अथ कोऽयं शय्यातरः ? कदो च शय्यातरो भवति ? कतिविधस्तपिण्डः ? कदा वा अ शय्यातरो भवति ? कस्य च सम्बन्ध्य सौ वर्जनीयः ? के च तत्पिण्डग्रहणे दोषाः ? कदा च तत्पिण्डो गृह्यते ? क्व च शय्यातरो भवतीत्यष्टौ द्वाराणि / तत्राद्यद्वारे-यतिप्रदत्तोपाश्रयप्रभुः, तेन यत्कृतप्रमाणतया निर्दिष्टो वा शय्यातरः / अत्र चैको वा बहवो वा शय्यातरा वाः / अपवादपदे पुनर्बहुपु शय्यातरेषु एकं शय्यातरं स्थापयित्वा वर्जयेत् / शेषेषु तु प्रविशेत् / द्वितीयद्वारे-यदा शय्यातरगृहे रात्रौ सुप्त्वा जागरित्वा वा प्राभातिकप्रतिक्रमणं कुर्वन्ति तदाऽसौ शय्यातरः / अथैतच्छायां सकलां रात्रिं जागरित्वा प्राभा तिकप्रतिक्रमणमन्यत्र कुर्वन्ति, तदा मौलः शय्यातरो न भवति, किन्तु यद्गृहे प्रतिक्रमणं कृत स एव / अथ मौलशय्यायां रात्रौ सुप्त्वाऽन्यत्र प्रातः प्रतिक्रामन्ति, तदा मौलोऽन्यश्च द्वावपि शय्यातरौ / यदा तु वसतिसङ्कीर्णतादिकारणादनेकोपाश्रयेषु साधवस्तिष्ठन्ति, तदा यत्राऽऽचार्यः स्थितः स एव शय्यातरो नाऽन्यः / तृतीयद्वारे-द्वादशधा तत्पिण्डः / तदुक्तम् * असणाईआ चउरो पाउंछण वत्थ पत्तकंबलयं / सूइछुरकन्नसोहण नहरणिआ सागरिअपिंडो॥ अयं तु तदपिण्डः ' तणडगलछारमलगसिज्जासंथारपीठलेवाई / सिज्जायर पिंडो सो न होइ सेहो अ सोवहिओ' /