________________ शय्यातरपिण्डदोषप्रायश्चित्तम् चतुर्थद्वारे-अहोरात्रात् परतोऽशय्यातरो भवति / तदुक्तं-'वुत्थे वज्जिज्जहोरत्तं' / इदमत्र हृदयं-यत्रोषितास्ततः स्थानाद् यस्यां वेलायां निर्गता द्वितीयदिने तावत्या वेलायाः परतः शययातगे न भवति / पञ्चमद्वारे-साधुगुणविरहितस्य लिङ्गमात्रावशेषस्यापि सम्बन्धी शय्यातरो वर्जनीयः / षष्ठद्वारे तित्थंकरपडिकुट्ठो आणाण्णाउग्गमो वि अ न सुज्झे / अविमुत्ति अलाघवया दुल्लहसिज्जाइबुच्छेओ'।। अस्या व्याख्या-आद्यन्तवजैर्मध्यमैर्महाविदेहजैश्च तीर्थकरैः वरमाधाकर्म कथञ्चिदुक्तं, न पुनः शय्यातरपिण्डोऽतस्तत् प्रतिकुष्टत्वाद्वर्जनीयोऽयम् / 'आण'त्ति / तं च गृह्णता तीर्थकराऽऽज्ञा न कृता स्यात् / * अण्णाउ 'त्ति / यत्र स्थितस्तत्रैव भिक्षां गृह्णता अज्ञातोयं च न कृतं स्यात् / -- उम्गमो वि अ न सुज्झे 'त्ति / आसन्नादिभावतः पुनः पुनस्तत्रैव भैक्षपानकादिनिमित्तं प्रविशत उद्गमदोषाश्च स्युः / स्वाध्यायश्रवणादिभ्यश्च प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति. तच्च गृह्णता 'अविमुक्तिः'गाद्धर्थाभावो न कृतः स्यात् / ' अलाघवय 'त्ति / शय्यातरतत्पुत्रपितृव्यादिभ्यो बहूपकरणं स्निग्धाहारं च गृहत उपकरणशरीरयोर्लाघवं न स्यात् / तत्रैवाहारादि गृहृतः शय्यातरवैमनस्यादिकारणात् शय्या दुर्लभा स्यात् सर्वथा वा तद्वयवच्छेदः स्यात् / अतस्तपिण्डो वर्जनीयः / सप्तमद्वारे ___ 'दुविहे गेलन्नम्मी निमंतणा दवदुल्लहा असिवे / ओमोदरिअ पओसे भए अ गहणं अणुण्णाय' / / व्याख्या-आगोढाऽनोगाढे द्विविधग्लानत्वे सूत्रोक्तविधिना शय्यातरपिण्डोऽपि प्रायः / निमन्त्रणे च-शय्यातरनिर्बन्धे सकृत् तं गृहीत्वा पुनः प्रसङ्गो निवारणीयः / दुर्लभे च क्षीरादिद्रव्येऽन्यत्रालभ्यमाने तत्रैव गृह्णन्ति / ' पओसि 'त्ति / राज्ञा प्रद्विष्टेन सर्वत्र भक्षे निवारिते प्रच्छन्नं तद्गृहेऽपि गृह्णन्ति / तस्करादिभये चान्यत्र तत्रापि स्वीकुर्वन्ति / शेषं सुगमम् / अष्टमद्वारे-खस्थाने वसन् शय्यातरो भवति देशान्तरे गतो न भवत्यपि / केवलं भद्रकान्तदोषात् पिण्डस्तत्रापि बर्जनीयः / भद्रको हि मम तावत् स्वगृहाव स्थितस्यामी न किञ्चिद् गृहन्ति, ततोऽत्र यदि गृह्णन्ति तथापि शोभनमिति विचिन्त्य अनेषणीयमपि कृत्वा दद्यात् / प्रान्तस्तु मम स्वगृहस्थितस्यामी न किश्चिद् गृहन्ति / अत्र तु सर्व गृह्णन्ति / तत् किमिदानीमहमन्यः सञ्जातः ? तस्मान् मायाविन एते इति विचिन्त्य वसत्युच्छेदादि कुर्यादेवं शय्यातरसम्बन्धिनां भ्रातृमातुलकादीनामुपाश्रयस्य प्रभूणामपि सम्बन्धी पिण्डो वर्जनीयो भद्रकप्रान्तादिदोषादित्यलं विस्तरेण / तदर्थिना तु कल्पतृतीयोदेशको निशीथद्वितीयोद्देशकोवाऽन्वेष्यः / अथ मनोज्ञं-मनसो रुचितं यद्विशिष्टवर्णगन्धरसस्पर्शीरुपेतं भक्तं भोजनमशनादि / पानं-पानीयं गन्धरसोपेतमच्छं च मनोझं तद्विपरीतममनोज्ञम् / सरसमपि दुर्गन्धममने ज्ञम् / अरसमपि सुगन्धं मनोज्ञं ततो मनोज्ञामनोज्ञे भक्तपानोये गृहीत्वा यदमनोज्ञं भक्तं पानीयं वा तत् त्यक्त्वा परिष्ठाप्य मनोज्ञस्य भक्तपानस्य भोजने विधीयमाने साधोलघुमासो भवति / आज्ञाभङ्गादयश्च दोषाः / इमे चापरे दोषाः-मनोज्ञभोजिनो रसगृद्धिः स्यात् / अपरसाधुभ्यः प्रमाणतो वाऽधिकभक्षणं स्यात्, विभज्य केवलमनोज्ञस्य भोजने काकशृगालखादितदोषः अङ्गारदोषश्च भवति / रसगृद्धो गच्छे रसाभावेन धृतिमलभमानो गच्छादपक्रामति / मायावी मण्डल्यां रसालमलभमानो भिक्षागत एव रसाल भुक्त्वा आगच्छति / उक्तं च-' भद्दगं भद्दगं भुच्चा विवन्नं विरसमाहरे' इत्यादि / रसभोजने च लुब्ध एषणामपि लुम्पति आर्यमगुवत् / मङ्गवाचार्यों हि रसलाम्पट यादवसन्नो जातो मृत्वा भवन