________________ आहारानुगतदोषान्तरप्रायश्चित्तम् वित्यत्र षष्ठयर्थे सप्तमी / ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय न जेमेत् / तथा प्रणिदयाहेतोःवर्षे वर्षति महिकायां वा पतन्त्यां प्राणिदयार्थं नाश्रीयात् / सूक्ष्ममण्डूकादिसंसक्तायां वा भूमौ प्राणिदयार्थमटनं परिहरन्न भुजीतेति भावः / तथा तपश्चतुर्थादिलक्षणं तद्धेतोः-तत्करणनिमित्तं नाद्यात् / तथा शिष्यनिष्पादनादिसकलकर्त्तव्यतानन्तरं पश्चिमे काले-पाश्चात्यवयसि संलेखनाकरणेन यावज्जोवानशनप्रत्याख्यानकरणस्यात्मानं योग्यं कृत्वा शरीरव्यवच्छेदार्थ भोजनं परिहरेत् नान्यथा / यतः-शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमशनप्रत्याख्यानकरणे जिनाज्ञाभङ्गः / ततश्च यानि षड् आहारग्रहणकारणान्यमिहितानि तानि विनापि बलरूपादिनिमित्तं रसगृद्धया वा य आहारो गृह्यते सोऽकारणाहारः / तस्मिन्नकारणाहारे गृह्यमाणे पूर्वोक्तमेव चतुर्लघुप्रायश्चित्तं भवति / तथा कारणाऽनाहारे-कारणानि यान्याहारविषये प्रदर्शितानि तेषु समुत्पन्नेष्वपि आहाराऽग्रहणे चतुर्लघुप्रायश्चित्तमापद्यते यतिः / ननु आहाराग्रहणं तपोरूपं तपश्च परमपदप्रापणप्रवणकारणगणाग्रेसरम् / अतः कथं तस्मिन् विधीयमाने प्रायश्चित्तमापद्यते ? भवानुबन्धिसावधव्यापारनिबन्धनत्वात् प्रायश्चित्तापत्तेः सत्यं, परं तपोऽपि जिनाज्ञयैव विधीयमानं सिद्धिनिबन्धनं सम्पद्यतेऽन्यथा तु क्रियमाणं तदपि भवानुबन्ध्येव भवेत् / अतस्तस्मिन् तथाविधे प्रायश्चित्तमपि सङ्गच्छते / इति-अमुना प्रदर्शितप्रकारेण प्रायश्चित्तं ग्रासैषणादोषपञ्चकविषयमाख्यातं-प्ररूपितम् / एवमाहारविषयसप्तचत्वारिंशद्दोषप्रायश्चित्तं प्ररूप्य पुनराहारानुगतकियघोषान्तरप्रायश्चित्तं प्रदर्शयन्नाहगच्छगयनिग्गयाणं लहुगा गुरुगा गिहेलुगस्संतो। भिक्खट्ठपविट्ठाणं निच्छुभणाणाइदोसा य // 167 / / व्याख्या - गच्छगता गच्छवासिनः स्थविरकल्पिकाः साधबो, गच्छनिर्गताः प्रतिमाप्रतिपन्नादयस्तेषां गच्छगत-निर्गतानां साधूनां गृहस्य-लोकसदनस्य य एलुक-उम्बरो द्वारे काष्ठादिमयस्तस्यान्तःमध्ये भिक्षार्थ भिक्षानिमित्तं प्रविष्टानाम् , उपलक्षणमेतत् तेनैलुकं विष्कम्भयताम्-एलुकस्यासन्नप्रदेशे वा तिष्ठतां क्रमेण चतुर्लघुकाः चतुर्गुरुका भवन्ति / गच्छवासिनां चतुर्लवु, गच्छनिर्गतानां चतुर्गुरु प्रायश्चित्तं भवतीत्यर्थः / निष्कासनाऽऽज्ञाभङ्गादयो दोषाश्च भवन्ति / तथाहि-एलुकात् परतो यदि साधुर्गच्छति तदा स्तैन्ये मैथुने वा शङ्का स्यात् / तत्र गृहमध्ये गृहस्वामी हिरण्यादेर्निधानं करोति उत्खननं वा. तत्र स्तेनोऽयमिति शङ्का भवेत् / यस्या गृहमभ्यन्तरमतिगतस्तस्या विषयेऽस्य साधोरिच्छा येनेत्थमभ्यन्तरं सहसा प्रविष्ट इति लोकस्य चतुर्थव्रतविषये शङ्का स्यात् / ततः स्तेनपारवारिकबुद्धथा ग्रहणं, ततो रोजकुलं प्रति कर्षणं. तदनन्तरं राजकुले व्यवहरणं, ततः पश्चात्कृतकरणम् / एवं च सति महान् प्रवचनस्योडाहः। तथा निर्विषयत्वकरणम् / तथा अतिभूमिप्रवेशनं तीर्थकृद्भिगृहस्थैश्चाननुज्ञातं ततोऽदत्तादान दोषः / तथा कस्मादतिभूमिमेष प्रविष्ट ? इति प्रद्विष्टः सन् गृहस्थोऽधिकरणं कुर्यात् / तथा हीलना यथा'एते वराका अलभमाना मध्ये प्रविशन्ति / तथा गलके गृहीत्वा बहिःकर्षणं कुर्वन्त्यगारिणः / अगारिणी वा मध्ये अप्रावृता दुर्निविष्टा वा भवेत् , ततः सहसा साधोरभ्यन्तरप्रवेशे तस्या लज्जा स्याद् , एवमादयोऽनेकदोषाः प्रादु.ष्यन्ति / ततः साधुना सहसा गृहाऽभ्यन्तरे न प्रवेष्टव्यम् /