________________ यति-जीतकल्पे उदरभागापेक्षं त्वेवम्-'अद्धमसणस्स सव्वंजणस्स कुजा दवस्स दो भागे / वाउपविआरणटा छभागं ऊणगं कुज्जा' / / प्रकामनिकामप्रणीतभक्तपानातिबबाहारातिबहुवारभोजने च प्रमाणातिक्रमदोषः स्यात् / यदुक्तं 'पगामं च निगामं च पणीअं भत्तपाणमाहारे / अइबहुअं अइबहुसो पमाणदोसो मुणेअब्बो' / तत्र द्वात्रिंशदादिकवलेभ्यः परतो भुञ्जानस्य प्रक्रामभोजनं, तदेव च प्रत्यहं क्रियमाणं निकामभोजनम् / गलत्स्नेहं भोजनं प्रणीतम्, अतिशयेन निजप्रमाणातिरेकेण बहू अतिबहु / त्रीन् वारान् त्रिभ्यो वा वारेभ्यः परतो भोजनमतिबहुशः / अंतिप्रमाणे च भोजने वमनातिसारमरणादयो दोषा भवन्ति, अतः प्रमाणातिक्रमो न कर्त्तव्यः / प्रमाणयुक्तमेव च भोक्तव्यं तस्यैव गुणावहत्वाद् / यदाह 'अप्पाहारस्स न इंदिआई विसएसु संपयर्टेति / नेव किलंमइ तवसा रसिएसु न मुज्झए आवि' / / तथा'हिआहारा मिआहारा अप्पाहारा य जे न। / न ते विजा चिगिच्छंति अप्पाणं ते चिगिच्छगा' / अतिप्रमाणे दोषे च चतुर्लघुकं प्रायश्चित्तं भवति / इंगाले चउगुरुगा चउलहु धूमे अकारणाहारे / तह कारणाऽणहारे इअ पायच्छित्तमक्खायं // 166 // व्याख्या-यन्निर्दोषमप्याहारं भुञ्जानः तद्गतविशिष्टगन्धरसास्वादवशतो जाततद्विषयमूर्छः सन्नहो ! मृष्टमहो ! सुसम्भृतमहो ! सुस्निग्धं सुपक्वं सुरसमित्येवं प्रशंसति तद्भोजनमगारं, चरणेन्धनस्य प्रदीप्तरागाग्निना अङ्गारसन्निभत्वापादनात् / यत् पुनस्तद्गतविरूपरसगन्धास्वादतो जाततद्विषयद्वषः सन्नहो ! विरूपं कुथितमपक्कमसंस्कृतमलवणं चेति निन्दति, तद्भोजनं धूमं द्वेषामिना चरणेन्धनस्य सधूमोपमत्वकरणात् / आह च त होइ सइंगालं जं आहारेइ मुच्छिओ संतो / तं पुण होइ सधूमं जं आहारेइ निदंतो' / / तत्राङ्गारदोषे चतुर्गुरुकाः, धूमदोषे चतुर्लघुकाः प्रायश्चित्तं भवति / इह साधूनामाहारग्रहणकारणानि बड् भवन्ति / तानि चामूनि 'वेअणवेआवच्चे इरिअढाए अ संजमट्ठाए / तह पाणवत्तिआए छटुं पुण धम्मचिंताए' // अस्या अर्थः-वेदना-बुभुक्षारूपा पीडा तदुपशमनाय / यदुक्तं- 'नथि छुहाइसरिसिआ वेअणा भुजिज्ज तप्पसमणट्ठा' / तथा आचार्यादीनां वैयावृत्त्यकरणाय / यदाह-'छाओ वेआवञ्चं न तरइ काउं अओ भुजे' / तथा ईर्यापथसंशोधनार्थं, बुभुक्षितो हि ध्यामललोचनत्वादित ईर्यापथं शोधयितुन शक्नोति / तथा संयमः-प्रत्युपेक्षणाप्रमार्जनादिलक्षणः तदर्थ-तत्परिपालननिमित्तम् / तथा प्राणप्रत्ययार्थप्राणसन्धारणार्थ, षष्ठं पुनः कारणं धर्मचिन्तार्थ-सूत्रानुचिन्तनादिरूपधर्मध्यानाभिवृद्धयर्थं भुञ्जीतेति क्रियासम्बन्धः / षड्मिस्तु कारणैः साधुन भुञ्जोत / तानि चेमानि 'आयंके उवस्सग्गे तितिक्खया बंभचेरगुत्तीसु / पाणिदया-तवहेउं सरीरवुच्छेअणट्टाए' / / अस्या अर्थः-आतङ्के-ज्वराजीर्णादावुत्पन्ने सति नानीयात् / तथा उपसर्गे राजस्वजनादिकृते / देवमनुष्यतिर्यकृते वा सञ्जाते सति तितिक्षार्थम् -उपसर्गसहनाथं न भुञ्जीत / तथा 'ब्रह्मचर्यगुप्ती'.