________________ संयोजनादोषप्रायश्चित्तम् ___ व्याख्या-मिश्रेषु-सचित्ताऽचित्तरूपेषु पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु मध्ये अतिरस्तिरछर्दिते-निरन्तरसान्तरछर्दिते मासलघुपञ्चके भवतः / प्रत्येकानन्तबीजविषये अतिरस्तिरछर्दितेनिरन्तरपरम्परोज्झिते पञ्चकं प्रायश्चित्तं भवति / सचित्तगंतकाये अणंतरपरंपरेण छड्डिअए / चउगुरुमासगुरु कमा मीसे गुरुमासपणगा य // 164 // ____व्याख्या-सचित्त-सजीवेऽनन्तकाये कन्दादिरूपे विषये अनन्तरपरम्परेण छर्दिते चतुर्गुरुमासगुरुकप्रायश्चित्ते क्रमाद् भवतः। मिने पुनरनन्तकाये निरन्तरपरम्परछर्दिते गुरुमासपञ्चकाख्ये प्रायश्चित्ते स्याताम् / अथ ग्रहणैषणादोषोपसंहारं कृत्वा ग्रासैषणादोषपञ्चकप्रायश्चित्तमाहइअ एसणदोसाणं पायच्छित्तं निरूविअं इत्तो / संजोअणाइ चउगुरु अइपमाणम्मि चउलहुरं // 165 / / व्याख्या-इति-उक्तप्रकारेण एषणादोषाणां-ग्रहणैषणादोषाणां दशानां प्रायश्चित्तं-विशुद्धिनिबन्धनं वस्तु निरूपितं-प्रदर्शितम् / इत ऊर्ध्वं ग्रासैषणादोषपश्चकप्रायश्चितं प्रदश्यते-तत्र पूर्व संयोजना / सा च द्विधा-बाह्या अभ्यन्तरा च / लत्र वसतेर्बहिरेव मिक्षामटन् साधू रसगृद्धया दुग्धदध्योदनादीनां द्रव्याणामनुकूलद्रव्यैः सह संयोजनं रसविशेषोत्पादनाय यत् करोति सा बाह्या संयोजना। अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयति / सा च त्रिधा-पात्रे कवले वदने च / तत्र यद् द्रव्यं यस्य व्यस्य रसविशेषाधायि तत तेन सह पात्रे रसगद्धथा संयोजयति / यथा सुकुमारिकादिकं खण्डादिना सह / एषा पात्रेऽभ्यन्तरा संयोजना / यदा तु हस्तगतमेव कवलतयोत्पाटितं सुकुमारिकादि चूर्ण खण्डादिना सह संयोजयति तदा कवले / यदा पुनर्वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति, यद्वा-मण्डकादिक पूर्व प्रक्षिप्य पश्चात् गुडादिकं प्रक्षिपति तदा मुखे / रसगृद्धथा च बाह्यद्रव्याणां संयोजनां कुर्वन् आत्मनो ज्ञानावरणीयादिकर्मपुद्गलसमूहैः सह संयोजनां करोतीति निषिद्धा संयोजना। वर्द्धिष्णुघृतादिनिगमनार्थं तु संयोगोऽनुज्ञातः तीर्थकृदादिभिः / वर्द्धिष्णु हि घृतादि न खण्डादिकमन्तरेण मण्डकादिभिरपि सह भोक्तुं शक्यते, प्रायस्तृप्तत्वात् / न च परिष्ठापनं युक्तं, घृतादिपरिष्ठापने स्निग्धत्वात् पश्चादपि कीटिकादिसत्त्वव्याघातसम्भवेन बृहत्तरप्रायश्चित्तसम्भवात् / ततो वर्धिष्णुघृतादिनिगमनार्थ खण्डादिभिरपि तस्य संयोजनं न दोषाय / एवं ग्लानाद्यर्थमपि संयोजना न दुष्टा / यदाह 'रसहेउं संयोगो पडिसिद्धो कप्पए गिलाणदा / जस्स व अभत्तच्छंदो सुहोचिओऽभाविओ जो अ'। पिण्डाधिकाराच पिण्डविषयवैषा संयोजनाऽभिहिता / एवमुपकरणविषयापि साऽवगन्तव्या / तस्यां च संयोजनायां क्रियमाणायां चतुर्गुरु प्रायश्चित्तं साधोः स्यात् / अथातिप्रमाणदोषः-तत्र साधोर्यावन्मात्रेण द्वात्रिंशत्कवलादिप्रमाणेनाहारेण - भुक्तेन धृतिबलसंयमयोगा न हीयन्ते, तावन्मात्रमाहारप्रमाण भोजने विज्ञेयम् / कुर्कुटचण्डप्रमाणकवलापेक्षं पुनरेवमाहारमानमभिधीयते 'बत्तीसं किर कवला आहारो कुच्छीपूरओ भणिओ / पुरिसस्स महिलिआए अट्ठावीसं भवे कवला' //