SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ यति-जीतकल्पे भावतो नाजीर्णादिदोषा जायन्ते / ततः तेषां तथा योपयतामपि न कश्चिद् दोषः / सोधूनां तूक्तनीत्या दोषः, तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम् / इह प्रायो यतिना विकृतिपरिभोगपरित्यागेन सदैवाऽऽत्मशरीरं यापनीयं, कदाचिदेव च शरीरस्यापाटवे संयमयोगवृद्धिनिमित्तं बलाधानाय विकृतिपरिभोगः / तथा चोक्तं सूत्रे-' अभिक्खणं निव्विगई गया य' इति / निर्विकृतिपरिभोगे च तक्राद्यवोपयोगीति तक्रादिग्रहणं कट्टरादिषु-घृतवटिकोन्मिश्रतीमनादिषु ग्रहणं भाज्य-विकल्पनीयं ग्लानत्वादिप्रयोजनोत्पत्तौ कार्य, न शेषकोलमिति भावः / तेषां बहुलेपत्वात् गृद्धयादिजनकत्वाच्च / अथ किं तत् त्रिकम् ? इति उच्यते-आहार उपधिः शय्या / एतानि त्रीण्यपि गृहिणां शीतकालेऽप्युष्णानि भवन्ति / तेन तेषां तक्रादिग्रहणमन्तरेणापि बाह्याभ्यन्तरोष्णतापेनाहारो जीर्यते / तत्राऽभ्यन्तरो भोजनवशात् , बाह्यः शय्योपधिवशात् / एतान्येवोऽऽहारोपधिशय्यारूपाणि त्रीणि वस्तूनि यतीनां ग्रीष्मकालेऽपि शीतानि भवन्ति / तत्राऽऽहारस्य शीतता-भिक्षाचर्यायां प्रविष्टस्य बहुषु गृहेषु स्तोकस्तोकलाभेन बृहद्वेलालगनात् / उपधेरे कमेव वारं वर्षाकालादर्वाक् प्रक्षालनेन मलिनत्वात् / शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन / तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते जाठरोऽग्निः / तस्माचाऽग्न्युपघातादजोर्ण-' वुभुक्षामान्द्यादयो दोषा जायन्ते / ततस्तकादिग्रहणं साधूनामनुज्ञातं, तकादिनापि हि जाठरोऽग्निरुद्दीप्यते, तेषामपि तथास्वभावत्वात् / एतत्सर्वं प्रासङ्गिकम् / प्रस्तुतं तु लिप्तम् / तत्र च दातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति, येन च कृत्वा भिक्षां ददाति तदपि मात्रं संसृष्टमसंसृष्ट वा, द्रव्यमपि सावशेष निरवशेषं वा। एतेषां च त्रयाणां पदानां परस्परं संयोगतोऽष्टौ भङ्गा भवन्ति / ते चामी-संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं 1, संसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यं 2, संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेष द्रव्यं 3, संसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यम् 4, असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यम् 5, असंसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यम् 6, असंसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेष द्रव्यम् 7, असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यम् 8 / एतेषु चाष्टसु भङ्गेषु मध्ये विषमेषु-प्रथमतृतीयपञ्चमसप्तमेषु भङ्गषु कल्पते, सावशेषद्रव्ये सति पश्चात्कर्मासम्भवात् / समेषु पुनर्न कल्पते, निरवशेषद्रव्ये सति अवश्यं पश्चात्कर्मसम्भवात् / इह च लिप्ते-लिप्तदोषे दध्यादिलिप्तकरमात्ररूपे चतु. लघुकं लभते मुनिः / अथ छर्दितम्-उज्झितं त्यक्तमित्यर्थः / तच्चेह द्विधा-पृथिव्यादिषु अनन्तरपरम्परमिति / यदशनादौ दाच्या दीयमाने पृथिव्यादिषु षड्जीवनिकायेषु परिशाटिनिरन्तरं पतति तदनन्तरछर्दितं, यत् पुनः सान्तरं निपतति तत् परम्परछर्दितम् / छर्दितग्रहणे च षड्जीवनिकायविराधनादयोऽने के दोषाः सम्भवन्ति / तत्र च मधुपिन्दूदाहरणं तच्च प्रसिद्धमेव / अथाऽनन्तरपरम्परछर्दितप्रायश्चित्तमाहछड्डिअ सचित्तभूदगसिहिपवणपरित्तवणस्सइतसेसु / चउलहु अ मासलहुआ अणंतरपरंपरेसु कमा // 162 // व्याख्या-सचित्तेषु पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु मध्येऽनन्तरछाद ते परम्परछर्दिते क्रमाच्चतुर्लधुमासलघुको स्याताम् / अइरतिरोछड्डिअए मीसेसु अ तेसु मासलहुपणगा / अइरतिरोछड्डिअए पणगं पत्तेअणंतबीएसु // 163 / /
SR No.004416
Book TitleJai Jiya Kappo
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy