________________ यति-जीतकल्पे पिहिए सचिनभूदग सेहिपषणपरित्तवणस्सइतसेहिं / चउलहुअमासलहुआ अणंतरपरंपरेहिं कमा // व्याख्या-सचित्तभूदकशिखिपवनपरीत्तवनस्पतित्रसैः-सचित्तैः पृथ्वीकायाऽकायतेजःकायवायुकायप्रत्येकवनस्पतिकायत्रसकायैः पिहिते-अनन्तरपरम्पराभ्यां स्थगिते क्रमाञ्चतुर्लचुकमासलघुकेएतैर्निरन्तरपिहिते चतुर्लघु / सान्तरपिहिते लघुमास इत्यर्थः / अइरपरंपरपिहिए मीसेहिं तेहिं मासलहुपणगा। अइरपरंपरपिहिए पणगं पत्तेअणंतबीएहि // 143 // व्याख्या-तैः पृथ्वीकायादिभिर्मिः सचित्ताऽचित्तरूपैरतिरःपरम्परपिहिते-निरन्तरसान्तरपिहिते निरन्तरपिहिते मासलघु / सान्तरपिहिते पञ्चकम् / प्रत्येकानन्तबीरतिरःपरम्परपिहिते-निरन्तरसोन्तरपिहिते पञ्चकम् / सचित्तगंतेगं अगंतरपरंपरम्मि पिहिअम्मि / चउगुरु मासगुरु कमा मीसेणं मासगुरुपणगा // .. ___ व्याख्या-सचित्तेनानन्तेन-अनन्तकायेनानन्तरपरम्परपिहिते क्रमाचतुर्गुरु मासगुरु / निरन्तरपिहिते चतुर्गुरु / सान्तरपिहिते गुरुमास इत्यर्थः / मिश्रेण-सचित्ताऽचित्तरूपेणानन्तकायेनानन्तरपरम्परपिहिते क्रमान् मासगुरुपञ्चके / अथ संहृतदोषप्रायश्चित्तमाह - साहरिअ सजिअ भूदगसिहिपवणपरित्तवणस्सइतसेसु / चउलहुश्रमासलहुआ अणंतरपर परेसु कमा // व्याख्या-इह येन हस्तेन मात्रकेण वा कृत्वा दात्री साधोरशनादिकं दातुमिच्छति, तत्रान्यददातव्यं किमपि सचित्तमचित्तं भिधे वाऽस्ति, ततस्तदन्यत्र भूम्यादौ सचित्ते. अचित्ते, मिश्रे वा क्षिप्त्वा तेन हस्तेन मात्रकेण वा यद्ददाति तत् संहृतम् / अत्र सचित्ताचित्तमिश्रपदैस्तिस्रश्चतुर्भङग्यो भवन्ति / तथाहि-एका चतुर्भङ्गो सचित्तमिश्रपदोभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां, तृतीया मिश्राचित्तपदाभ्याम् / तत्र सचित्ते सचित्तं संहृतं, मिश्रे सचित्तं, सचित्ते मित्रं, मिश्रे मिश्रमिति प्रथमा चतुर्भङ्गी / तथा सचित्ते सचित्तं संहृतम्, अचित्ते सचित्तं, सचित्ते अचित्तम्, अचित्ते अचित्तमिति द्वितीया / तथा मिश्रे मिश्रं संहृतम्, अचित्तं मिश्रे, मिश्रे अचित्तम्, अचित्ते अचित्तमिति तृतीया / अत्र प्रथमचतुर्भङ्ग्याः सर्वेष्वपि भङ्गेषु न कल्पते / द्वितीयतृतीयचतुर्भङ्योस्त्वाद्येषु त्रिषु त्रिषु भङ्गेषु प्रतिषेधः / चरमे भजना। अत्र च सचित्तः पृथ्वीकायः सचित्ते पृथ्वीकाये संहृतः, सचित्ताऽप्काये वा संहृत इत्यादि षड्जीवनिकायचारणिकया स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभङ्गेष्वेककस्मिन् भङ्गे षटत्रिंशत् षट्त्रिंशद् भङ्गा भवन्ति / सर्वसङ्ख्यया चत्वारि शतानि द्वात्रिंशदधिकानि भङ्गानाम् / एते च सर्वेऽपि भङ्गा नैरन्तर्येण पारम्पर्येण वा भवन्ति / तत्र चैतेषु सर्वेष्वपि निरन्तरपरम्परसंहृतभङ्गेषु यत्र सचित्तसङ्घट्टनादिदोषः स्यात् तत्र न कल्पते / एतत् सर्वं निक्षिप्ते पिहितेऽपि स्वयमवगन्तव्यम् / अथैतेषु निरन्तरपरम्परसंहृतसर्वभङ्गेषु प्रायश्चित्तं प्रदर्यते / सजीवाः-सचित्ता ये भूदकशिखिपवनपरीत्तवनस्पतित्रसाः-पृथ्वीकायाऽप्कायतेजःकायवायुकायप्रत्येकवनस्पतिकायत्रसकायास्तेषु अनन्तरपरम्परेषु संहृत्याऽन्यद्वस्तु क्षिप्त्वाऽशनादिके दीयमाने गृहीते क्रमाञ्चतुर्लघुकमासलघुके / अनन्तरसंहृते चतुर्लघुकं परम्परसंहृते मासलघुकं भवतीत्यर्थः /