________________ म्रक्षित-निक्षितादिदोषप्रायश्चित्तम् 75 व्याख्या-संसजन्ति-विलगन्ति सलेपत्वात् कीटिकामक्षिकादयो जन्तवो येषु तानि संसक्तानि, तैरगर्हितैरचितम्रक्षितम् अगहितसंसक्ताचित्तम्रक्षितं तस्मिन्नगर्हितसंसक्ताचित्तम्रक्षितेऽपि चतुर्लघुकं लभते यतिः / इत्युक्तं म्रक्षितदोषप्रायश्चित्तम् / अथ निक्षिप्तदोषप्रायश्चित्ताभिधित्सया तत्स्वरूपं दर्शयत्युत्तरार्द्धन-निक्षिप्त-पृथिव्यादिषु स्थापितं द्विधा-अनन्तरपरम्परमिति / देयं वस्तु पृथिव्यादिषु निरन्तर सान्तरं वा स्थापितं भवतीति द्विधा निक्षिप्तमित्यर्थः / एतत्प्रायश्चित्तमाहठविए सचित्त भूदगसिहिपवणपरित्तवणस्सइतसेसु / चउलहु अ मासलहुआ अणतरपरंपरेसु कमा // 138 // व्याख्या-सचित्तभूदकशिखिपवनपरीत्तवनस्पतित्रसेषु-सचित्तपृथ्वीकायाऽष्कायतेजःकायवायुकायप्रत्येकवनस्पतिकायत्रसकायेषु अनन्तरम्-अव्यवधानेन परम्परं-व्यवधानेन स्थापिते निक्षिप्ते देयेऽशनाद्याहारे गृहीते क्रमात् प्रायश्चित्तं चतुर्लघुकमासलघुकौ / अनन्तरनिक्षिप्ते चतुर्लघु, परम्परनिक्षिप्ते लघुमास इत्यर्थः / अइरपरंपरठविए मीसेसु तेसु मासलहुपणगा / अइरपरंपरठविए पणगं पत्तेअणंतबीएसु // 139 // व्याख्या-तेषु-पृथ्वीकायाऽकायतेजःकायवायुकायप्रत्येकवनस्पतिकायत्रसकायेषु मिश्रेषु-सचित्ताचित्तरूपेषु / अतिरःपरम्परस्थापिते / तिरो व्यवधाने, न तिरोऽतिरोऽव्यवधानम् अनन्तरमित्यर्थः / अतिरोऽव्यवधानेन स्थापिते मासलघु / परम्परेण-व्यवधानेन स्थापिते पञ्चकं क्रमादवगन्तव्यम् / प्रत्येकानन्तबीजेषु-प्रत्येकवनस्पतिकायबीजेषु अनन्तवनस्पतिकायबीजेषु अतिरःपरम्परस्थापिते-निरन्तरं सान्तरं स्थापिते पञ्चकम् / प्रत्येकबीजेषु अनन्तरपरम्परस्थापिते पञ्चकं लघु / अनन्तबीजेषु निरन्तरपरम्परस्थापिते पञ्चकं गुरु स्यादित्यर्थः / एवमन्यत्रोऽप्यनन्तकाये पञ्चकं गुरुकं ज्ञातव्यम् / सचित्तगंतकाए अणंतरपरंपरेण निक्खित्ते / चउगुरु मासगुरु कमा मीसे गुरुमास पणगा य // 14 // व्याख्या-सचित्तेऽनन्तकाये अनन्तरपरम्परेण निक्षिप्ते-निरन्तरनिक्षिप्ते सान्तरनिक्षिप्ते क्रमाञ्चतर्गत मासगुरु भवति / मिश्रे पुनरनन्तकाये निरन्तरनिक्षिप्ते गुरुमासः। सान्तरनिक्षिप्ते तु पञ्चकं गुरुकं स्यात् / अथ पिहितं त्रिधा स्यात् तदेव दर्शयतितह गुरुअचित्तपिहिरं सचित्तपिहिरं च मीसपिहिरं च / पिहिरं तिहा अभिहिरं चउगुरुमचित्तगुरुपिहिए // 141 // ___ व्याख्या-तथा पिहितं देयमशनादि वस्तु यत् केनाऽप्यपरेण वस्तुना स्थगितं भवति तत् पिहितं त्रिधाऽभिहितं जिनः। गुर्वचित्तपिहितं सचित्तपिहितं मिश्रपिहितं च / तत्र गुरुणो-महाभारेणाऽचित्तेन पाषाणखण्डादिना यहेयवस्तु भाजनादि पिहितं स्यात् तद्गुर्वचित्तपिहितम् / सचित्तन पृथिवीकायादिना पिहितं सचित्तपिहितम् / मिश्रेण पृथ्वीकायादिना पिहितं मिश्रपिहितम् / तत्राऽचित्त. गुरुद्रव्यपिहिते चतुर्गुरु /