________________ 74 यति-जीतकल्पे व्याख्या-सरजस्कं-सचित्तपृथिवीरजोऽवगुण्ठितं देयमात्रकहस्तादि तच्च तत् म्रक्षितं च / सरजस्कम्रक्षितम् / तथा सेटिकाकाषादिम्रक्षितमेव-ऊषमृत्तिकाहरितालहिङ्गुलकमनःशिलाञ्जनलवणगैरिकसेटिकातुवरिकादिपृथ्वीकायम्रक्षितमित्यर्थः / निर्मिश्रोऽपरिणतः सचेतनः , मिश्रः सचित्ताऽचित्तरूपः, एवंविधो यः कर्दमस्तेन म्रक्षितं निर्मिश्रकर्दमम्रक्षितं मिश्रकर्दमम्रक्षितं चेत्यर्थः / इति पृथिवीम्रक्षित चतुर्दा / तत्र क्रमेण प्रायश्चित्तमाहतत्थ कमेणं पणगं लहुमासो चउलहू अ मासलहू / दगमक्खि पि चउहा पच्छाकम्मं पुरेकम्मं // 133 / / ___ व्याख्या-तत्र पृथिवीकायम्रक्षिते चतुर्विधेऽपि क्रमेणेदं प्रायश्चित्तम् / तद्यथा-सरजस्कम्रक्षिते पञ्चकम् / सेटिकादिपृथ्वीकोयम्रक्षिते लघुमासः / निर्मिश्रकर्दमम्रक्षिते चतुर्लघु / मिश्रकर्दमम्रक्षिते मासलघु / दकम्रक्षितमपि-अकायम्रक्षितमपि चतुर्दा / तद्यथा-पुरःकर्म, पश्चातकर्म, सस्निग्धम् उदका, च / तत्र दानात पूर्व हस्तमात्रकयोः क्षालने पुरःकर्म / दानानन्तरं झालने तु पश्चात्कर्म / ससिणिद्धं उदउल्लं चउलहु चउलहु अ पणग लहुमासा / वणमक्खिअं तु दुविहं पत्तेआणंतभेएण // 134 // व्याख्या-सस्निग्धम् -ईषलक्ष्यमाणजलखरण्टितं हस्तादि / उदका स्पष्टोपलभ्यमानजलसंसर्गम / अत्र क्रमेण प्रायश्चित्तमिदम्-पुरःकर्मणि चतुर्लघु, पश्चात्कर्मणि चतुर्लघु, सस्निग्धे पञ्चकम् , उदका लघुमासः / वनस्पतिकायम्रक्षितं तु द्विविध-प्रत्येकानन्तभेदेन / प्रत्येकवनस्पतिकायम्रक्षितमनन्तकायम्रक्षितं च / तत्र प्रत्येकम्रक्षितं त्रिधा, तदेवाहउक्ट्ठपिट्ठकुकुसभेआ पत्तेअमक्खिअंतिविहं। तिविहे वि हु लहुमासो गुरुमासो गंतमक्खिअए // 135 / / व्याख्या- उत्कृष्टपिष्टकुक्कुसभेदात् प्रत्येकम्रक्षितं त्रिविधम् / तत्र उत्कृष्टं कलिङ्गाऽऽमवाल क्यादिफलादीनां श्लक्ष्णीकृतानि खण्डानि अम्लिकापत्रसमुदायो वा उदूखलखण्डितः / पिष्टम्-आमतन्दुलक्षोदादि / कुक्कुसाः-प्रतीताः। तैम्रक्षितं प्रत्येकवनस्पतिम्रक्षितम् / त्रिविधेऽपि प्रत्येकवनस्पतिम्रक्षिते लघुमासः / हुशब्दः पूरणे / कुट्टितानामनन्तकायानां पनसफलादीनां श्लक्ष्णखण्डैद्मक्षितमनन्तकायम्रक्षितं तस्मिन् गुरुमासः / शेषैस्तु तेजःकोयादिभिः म्रक्षितं न सम्भवति, लोके तथा प्रतीत्यभावात् / एवं त्रिविधस्यापि सचित्तम्रक्षितस्य सप्रभेदस्य प्रायश्चित्तमभिहितम् / अथाचित्तम्रक्षितस्य तदाह गरहिअइअरेहिं अचित्तमक्खिअं दुविहमाहु साहुवरा। गरहिअअचित्तमक्खिअ-दोसेण लहइ चउलहुअं // 136 // व्याख्या-गर्हितेतरैः-गर्हितागर्हितैरचित्तम्रक्षितं द्विविधमाहुः साधुवरा-जिनाः / तत्र गर्हि तैः मांसवसाशोणितसुरामूत्रोच्चारादिभिः शिष्टजनस्याऽभक्ष्याऽपेयैक्षितं गर्हिताचित्तम्रक्षितं तेन गर्हिताचित्तम्रक्षितदोषेण चतुर्लघुकं लभते साधुः / अगरहिसंसत्त-अचित्तमक्खिअम्मि वि लहेइ चउलहुअं। निक्खित्तं पुढवाइसु अणतरपरंपरं ति दुहा // 137 //