________________ एषणादोषप्रायश्चित्तम् व्याख्या-संस्तवं द्विविधमाहुः-प्रथमं गुणस्तवने / द्वितीयं सम्बन्धे / एकैकमपि द्विधा-पूर्व पश्चाच्च / अयमर्थः-संस्तवो द्विविधः-श्लाघारूपः परिचयरूपश्च / तत्र श्लाघारूपो वचनसंस्तवः, परिचयरूपः सम्बन्धिसंस्तवः / एकैकोऽपि द्विधा-पूर्वसंस्तवः पश्चात्संस्तवश्च / तत्र पूर्व यहातारं स्तुत्वा याचते, लब्धे वा पश्चात् स्तौति स पूर्वसंस्तवः पश्चात्संस्तवश्च श्लाघारूपः / सम्बन्धिसंस्तवो मात्रादिनात्रकयोजनं पूर्वसंस्तवः, श्वश्वादिसम्बन्धयोजनं पश्चात्संस्तवः। तत्र गुणस्तवनरूपसंस्तवे द्विविधेऽपि मासलघु / सम्बन्धिसंस्तवे द्विविधेऽपि चतुर्लघुकम् / विजामंते चुन्ने जोगे चउसु वि लहेइ चउलहु / मूलं च मूलकम्मे उप्पायणदोसपच्छित्तं // 129 // व्याख्या- विद्या-ससाधना स्त्रीदेवताऽधिष्ठिता च, मन्त्रोऽसाधनः पुंरूपदेवताधिष्ठितश्च, चूर्ण * मञ्जनादि, योगः पादप्रलेपादिः / तत्प्रयोगेण लब्धाः पिण्डा विद्यामन्त्रचूर्णयोगपिण्डाः। एतेषु चतुर्वपि पिण्डेषु गृहीतेषु चतुर्लघुकं लभते साधुः। मूलकर्मणि गर्भाधानपरिशाटादिकरणरूपे मूलं च-मूलाख्यमष्टमप्रायश्चित्तं लभते साधुः / इत्युत्पादनादोषप्रायश्चित्तमुक्तम् / सम्प्रति ग्रहणैषणादोषाणां दशानामपि क्रमेण प्रायश्चित्तमाहसंकिअदोससमागं आवजइ संकिअंमि पच्छित्तं / दुविहं मक्खिअमुत्तं सचित्ताचित्तभेएणं // 130 // ... व्याख्या-इह शङ्कितदोषे चत्वारो भङ्गाः-शङ्कितमाही शङ्कितभोजी, शङ्कितमाही निःशङ्कित. भोजी, निःशङ्कितग्राही शङ्कितभोजी, निःशङ्कितग्राही निःशङ्कितभोजी च / अत्र द्वितीयचतुर्थों भङ्गो शुद्धौ, द्वयोरपि भोजनस्य निःशङ्कितत्वेन निर्दोषत्वात् / द्वितीयभङ्गभाविनश्च शङ्कितग्रहणदोषमात्रस्योत्तरशुभपरिणामेन शुद्धिसम्भवात् , शेषभङ्गद्वयमध्ये पुनः शङ्किते सति शङ्कितदोषसमानं प्रायश्चित्तमापद्यते / आधाकर्मादीनां षोडशोद्गमदोषाणां म्रक्षितादीनां च नवैषणादोषाणां मध्ये यं दोषं ग्रहणे भोजने वा शङ्किते तस्मिन् दोषे यत् प्रायश्चित्तं भवति, तत् शङ्कितदोषे प्राप्नोतीत्यर्थः। म्रक्षितं द्विविधमुक्तं सचित्ताऽचित्तभेदेन / सचित्तम्रक्षितम् अचित्तम्रक्षितं च / तत्र यत् सचित्तेन पृथ्वीकायादिना म्रक्षितम्-अवगुण्ठितं तत् सचित्तम्रक्षितम् / यत् पुनरचित्तेन पृथिवीरजःप्रभृतिनाऽवगुण्ठितं तदचित्त म्रक्षितम् / तत्र सचित्तम्रक्षितं त्रेधा-एतदेव दर्शयतिभृदगवणमक्खिअम्मि तिविहं सचित्तमक्खिअं विती / पुढवीमक्खिअमित्थं चउन्विहं बिति गीअत्था व्याख्या-सचित्तम्रक्षितं त्रिविधं ब्रुवते-भूदकवनम्रक्षितमिति-अनेन प्रकारेण पृथ्वीकायम्रक्षितम् अप्कायम्रक्षितं वनस्पतिकायम्रक्षितं चेत्यर्थः / तत्र पृथिवीम्रक्षितमित्थमनेन वक्ष्यमाणप्रकारेण चतुर्विधं ब्रुवन्ति गीतार्थाः-समयविदः / एतदेव व्याख्यानयति ससरक्खमक्खिों तह सेडिअकासाइमक्खिों चेव / __ निम्मीसमीसकद्दम-मक्खिमिअ पुढविमक्खिअं चउहा // 132 //