________________ यति-जीतकल्पे तिविहो निमित्तपिंडो तिकालभेएण तत्थ तीयंमि। चउलहु अह चउगुरुअं अणागए वट्टमाणे अ // 124 // व्याख्या निमित्तम्-अतीताद्यर्थसूचकं शुभाशुभचेष्टादि तत्कथनेन प्राप्तः पिण्डो निमित्तपिण्डस्त्रिविधस्त्रिकालभेदेनातोतानागतवर्तमानलक्षणकालत्रयभेदेन / तत्रातीतकालविषयनिमित्तकथनेन प्राप्ते पिण्डे चतुर्लघु / अनागतकालविषयनिमित्तकथनेन वर्तमानकालविषयनिमित्तकथनेन च लब्धे पिण्डे चतुर्गुरुकम् / जाइकुलसिप्पगणकम्मभेअओ पंचहा विणिट्ठिो / आजीवणाइपिंडो पच्छित्तं तत्थ चउलहुगा // ___व्याख्या-आजीवनापिण्डो जातिकुलशिल्पगणकर्मभेदतः पञ्चधा विनिर्दिष्टः / तत्र जातिः- .. ब्राह्मणादिका कुलम्-उग्रादि / अथवा मातुः समुत्था जातिः, पितृसमुत्थं कुल / शिल्पं-तूर्णनसीवनादि / गणो-मल्लादिवृन्दं, कर्म-कृष्यादि / अथवा अप्रीत्युत्पादक कर्म, प्रीत्युपादकं तु शिल्पम् / अन्ये त्वाःअनाचार्योपदिष्टं कर्म. आचार्योपदिष्टं तु शिल्पमिति / एतैर्जातिकुलशिल्पगणकर्मभिरात्मनो गृहस्थस्य च तुल्यरूपताख्यापनेन लब्धः पिण्डः आजीवनाापण्डः / तत्राऽऽजीवनापिण्डे प्रायश्चित्तं चतुर्लघुकाः / चउलहु वणीमगपिंडे तिगिच्छंपिंडं दुहा भणंति जिणा / बायरसुहुमं च तहा चउलहु बायरचिगिच्छाए // 126 // व्याख्या-वनीपको-भिक्षाचरः तद्वत् पिण्डार्थं श्रमणातिथिब्राह्मणकृपणश्वानादिभक्तानां दायकानामात्मानं तत्तद्भक्तं दर्शयन् यल्लभते स वनीपकपिण्डस्तस्मिन् चतुर्लघु / चिकित्सापिण्डं द्विधा भणन्ति जिना-वीतरागा बादरं सूक्ष्मं च / तत्र वैद्यवत् स्वयं वमनविरेचनादि रोगप्रतीकारविधापनं बादरचिकित्सा, तयाऽवाप्तः पिण्डो बादरचिकित्सापिण्डः / वैद्यौषधादिसूचनेन सूक्ष्मा चिकित्सा तया लब्धः पिण्डः सूक्ष्मचिकित्सापिण्डः / तत्र बादरचिकित्सापिण्डे चतुर्लघु / सुहुमाए मासलहू चउलहुआ कोहमाणपिंडेसु / मायाए मासगुरुं चउगुरु तह लोभपिंडमि // 127 / / व्याख्या -- सूक्ष्मचिकित्सापिण्डे लघुमासः। क्रोधमानमायालोभलब्धाः पिण्डाः क्रोधमानमायालोभपिण्डाः / तत्र साधोविद्याप्रभावमुच्चाटनमारणादिकं, तपःप्रभा शापदानादिकं, रोजकुले वल्लभत्व, क्रोधफलं वा ज्ञात्वा गृहस्थेन यः पिण्डो दीयते स क्रोधपिण्डः / अभिमानेन हठादपि यः पिण्डो गृह्यते स मानपिण्डः / नानाविधविप्रतारणप्रकारैर्यः पिण्डो लभ्यते स मायापिण्डः / वल्लचनकादिकमसारं लभ्यमानमपि प्रतिषिध्य यन् मोदकादि सारमेव प्रतिगृह्णाति / अथवा प्रचुरं मधुरस्निग्धादि वस्तु लभ्यमानं दृष्ट्वा यद्बहु गृह्णाति स लोभपिण्डः / तत्र क्रोधमानपिण्डयोश्चतुर्लघुकाः। मायापिण्डे गुरुमासः / तथा लोभपिण्डे चतुर्गुरु / पुचिपच्छासंथवमाहु दुहा पढममित्थ गुणयुगणे / मासलहु तत्थ वीअं संबंधे तत्थ चउलहुअं // 128 //