________________ 71 आच्छेद्यादिदोषप्रायश्चित्तम् व्याख्या- आच्छेद्यं त्रिधा-स्वामि-प्रभु-स्तेनभेदात् / स्वामी -प्रामादिनायकः प्रभुः-गृहाधिपः तौ स्वोयत्तमानुषेभ्यः / स्तेनाः-चौरास्ते सार्थिकादिभ्यो बलादाच्छेद्य-उद्दाल्य यत् साधुभ्यो ददाति तदाच्छेद्यं तस्मिन् त्रिविधेऽपि-स्वामिप्रभुस्तेनकृते आच्छेद्ये गृहीते चतुर्लघुकम् / अनिसृष्टं त्रिविधं साधारण-चोल्लक-जड्डभेदतः। तत्र साधारणराद्धं भक्तं सर्वाननुज्ञातमेकादेर्ददतः साधारणानिसृष्टम् / चोल्लको-भोजनं यत् कौटुम्बिकप्रेषितहालिकयोग्यचोल्लकमध्यात् कौटुम्बिकाननुज्ञया चोलकवाही साधवे ददाति तच्चोल्लकानिसृष्टम् / जड्डो-हस्ती तस्य सत्कं पिण्डादिकं राज्ञा गजेन वाऽननुज्ञातं जड्डानिसृष्टम् / तिविहे वि तत्थ चउलहु तओ अज्झोअरं विआणाहि / जावंतिअजइपासंडि-मीसभेएण तिविगप्पं।। व्याख्या-तत्र त्रिविधेऽपि अनिसृष्टे गृहीते चतुर्लघु / ततोऽध्यवपूरकं विजानीहि-यावदर्थिक यतिपाखण्डि-मिश्रभेदेन त्रिविकल्पं-त्रिविधम् / यत्राऽग्निसन्धुक्षणस्थालीजलप्रक्षेपाद्यारम्भे यावदाथकाद्यागमनात् पूर्वमेवात्मार्थ निष्पादिते पश्चाद्यथासम्भवं त्रयाणां यावदर्थिकादीनामायाधिकतरास्तन्दुलाः सह राद्धं स्थाल्यां प्रक्षिप्यन्ते सोऽध्यवपूरकः / अत एव चास्य मिश्रजाताद् भेदः / यतो मिश्रजातं तदुच्यते यत् प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थं च मिश्रं निष्पाद्यते / यत पुनः प्रथमतः स्वार्थमारभ्यते पश्चात् प्रभूतानथिनः पाखण्डिनः साधून् वा समागतानवगम्य तेषामायाधिकतरजलतन्दुलादि प्रक्षिप्यते सोऽध्यवपूरक इति मिश्रजातमदस्य भेदः / स विधा-यावदर्थिकमिश्रः , पाखण्डिमिश्रः , यतिमिश्रश्च / मासलहु पढमभेए मासगुरुं चरमंमि जाण भेअदुगे / इअ उग्गमदोसाणं पायच्छित्तं मए वुत्तं // 122 // ____ व्याख्या-प्रथमभेदे-अध्यवपूरकस्य यावदर्थिकरूपमिश्ररूपे मासलघु / चरमे-पाश्चात्ये भेदद्विके पाखण्डिमिश्रयतिमिश्ररूपे मासगुरु प्रायश्चित्तं जानीहि / इत्यमुना प्रकारेण उद्गमदोषाणां षोडशानां प्रायश्चित्तं मया प्रोक्तं-प्रतिपादितम् / एतेषु षोडशोद्गमदोषेषु केचन दोषा विशुद्धकोटिरूपाः केचन पुनर• विशुद्धकोदिरूपाः / तत्र यद्दोषदुष्टे भक्ते तावन्मात्रेऽपनीते शेषं कल्पते स दोषो विशुद्धकोदिः / शेषस्त्वविशुद्धकोटिः। तत्राधाकर्म, औदेशिकचरमभेदत्रयं. भक्तपानपूतिः, मिश्रजातान्त्यभेदद्वयं, बादरप्राभृतिका, अध्यवपूरकान्त्यभेदद्वयं चाविशुद्धकोटिः। पुरीषलवेनेव तवयवेनापि स्पृष्टं सर्वमभोज्यं, शेषास्तु विशुद्धकोटयः / ततसम्पृक्तं चान्नादि संस्तरे साधवः सर्वं त्यजन्ति / असंस्तरे तु विविच्य तदेव त्यजन्ति / घृतादिकमपि तावन्मात्रमेव त्यजन्ति, न शेषम् / यद्यपि तदद्वयवयोगस्तथापि शुद्धत्वमिति / अथोत्पादनादोषाणां षोडशानां क्रमेण प्रायश्चित्तमाहधाईउ पंच खीराईभेअओ चउलहु तु तप्पिडे / चउलहु दुईपिंडे सगामपरगामभिन्नंमि // 123 // व्याख्या-धान्यो- बालकपरिपालिकाः ताश्च क्षीरादिभेदतः पञ्च भवन्ति / बालस्य क्षीरमजनमण्डन-क्रीडना-ऽधायः / तासां कर्म धात्रीत्वं तेन लब्धः पिण्डो धात्रीपिण्डस्तस्मिन् धात्रीपिण्डे चतुलघु / दूती-परसन्दिष्टार्थकथिका, तस्याः कर्म दौत्यं तेन दौत्येन स्वग्रामे परग्रामे वा सन्दिष्टार्थकथनरूपेण प्राप्तः पिण्डो दूतीपिण्डस्तस्मिन् दूतीपिण्डे स्वग्रामपरग्रामभेदभिन्ने चतुर्लघु /