________________ 70 यति-जीतकल्पे ___ व्याख्या-परिवर्तितमपि द्विधा-लौकिकलोकोत्तरप्रकाराभ्याम् ' तत्र यदन्यदीयं वस्त्राद्यात्मीयैः परावर्त्य गृही साधुभ्यो ददाति तल्लौकिकम् / साधव एव यन्मिथः परिवर्तयन्ति तल्लोकोत्तरम् / तत्र लोकोत्तरे परिवात्तते मासलघु / लौकिके चतुर्लघुकं भवति / अभिहडमुत्तं दुविहं सगामपरगामभेअओ तत्थ / चरमं सपञ्चवायं अपचवायं च इअ दुविहं // 115 / / व्याख्या- अभ्याहृतम्-अभि-सम्मुखं स्वस्थानात साधुसमीपे दानायाहृतम्-आनीतमभ्याहृतम् / तच्च द्विविधमुक्तं स्वग्रामपरग्रामभेदतः / स्वग्रामाऽभ्याहृतं परग्रामाऽभ्याहृतं चेत्यथः / तत्र तयोमध्ये चरमं-पाश्चात्यं परग्रामाऽभ्याहृतं पुनर्द्विविधं-सप्रत्यपायमप्रत्यपायं चेति / सपञ्चवायपरगाम आहडे चउगुरुं लहइ साहू। निपञ्चवायपरगामआहडे चउलहु जाण // 116 // व्याख्या-परस्माद्-अन्यस्माद् ग्रामाद् यत् साधुदाननिमित्तम् आहृतम्-आनीतं तत परग्रामाहृतम् / तस्मिन् परग्रामाहृते सप्रत्यपाये-अनर्थसहिते गृहीते चतुर्गुरुकं लभते साधुः / परग्रामाहृते निष्प्रत्यपाये चतुर्लघुकं प्रायश्चित्तं जानीहि / मासलहु सग्गामाहडम्मि तिविहं च होइ उभिन्नं / जतुछगणाइविलित्तुन्भिन्नं तह दहरुन्भिन्नं // तह य कवाडुब्भिन्न लहुमासो तत्थ दद्दरुब्भिन्ने / चउलहुअं सेसदुगे तिविहं मालोहडं तु भवे // 118 / / व्याख्या-यस्मिन् ग्रामे साधुर्भवति तस्मादेव ग्रामादाहृतं-साधुसमीपे दानायोनीतं स्वग्रा-: माहृतं तस्मिन् स्वग्रामाहृते मासलघु प्रायश्चित्तम् / उभिन्नं पुनत्रिविधं भवति-लिप्तो भिन्नं दर्दरोद्भिन्नं कपाटोद्भिन्नं च / तत्र जतुछगणादिलेपेन विलिप्तं घृतघटादिमुखं साधूनां दानार्थमुद्भिद्य घृतादि चहीयते तल्लिप्तोद्भिन्नम् / दर्दरः-कुतुपादेर्मुखबन्धनं वस्त्रचर्मादिखण्डं तं दर्दरमुद्भिद्य यद्दीयते तद्ददरोद्भिन्नम् / तथा यत् पिहितं कपाटमुद्भिद्य-उद्घाटथ साधुभ्यो दीयते तत्कपाटोद्भिन्नम् / तत्र दर्दरोद्भिन्ने लधुमासः / शेषद्विके-लिप्तोद्भिन्नकपाटोद्भिन्नलक्षणे चतुलघुकम् / मालापहृतं मालं-प्रासादोपरितलं तस्मादपहृतं मालापहृतम् / उपलक्षणत्वात् करदुर्ग्राह्य यद् दात्री ददाति तत् सर्व मालापहृतं / तत पुनत्रिविधं भवति / कथम् ?उकिट्ठजहन्नमज्झिम-भेअओ तत्थ चउलहुकिठे / लहुमासो अ जहन्ने गुरुमासं मज्झिमे जाण / / व्याख्या- जघन्यमध्यमोत्कृष्टभेदत्रयान् मालापहृतं विधा / तत्र भून्यस्ताभ्यां पादयोरन. भागाभ्यां पाणिभ्यां चोत्पातिताभ्यामूर्ध्वविलगितसिककादिस्थितं दाच्या दृष्टेरगोचरं यहीयते तज्जघन्य मालापहृतम् / मञ्चकादिकमारुह्य यदीयते तन्मध्यमम् / निःश्रेण्यादिकमारुह्य प्रासादोपरितलादानीय यदीयते तदुत्कृष्टं मालापहृतम् / तत्रोत्कृष्ट मालापहृते गृहीते चतुर्लघु / जघन्ये मालापहृते लघुमासः / मध्यमे म लापहृते गुरुमासं जानोहि / सामिपहुतेणकए तिविहे वि अ चउलहुं तु अच्छिज्जे / साहारण-चुल्लग-जड्डभेअओ तिनिहमणिसिद्वं