________________ स्थापना-प्रादुष्कर-क्रीतादिदोषप्रायश्चित्तम् भिक्षे परिभावयति, ततो गृहत्रयात् परतो गृहान्तरे साधुनिमित्तं या हस्तगता भिक्षा सो इत्वरस्थापना : तत्रोपयोगाऽसम्भवात् / चिरठविए लहुमासो इत्तरठविअंमि देसि पणगं / पाहुडिआ वि अ दुविहा बायरसुहुमप्पयारेहिं // व्याख्या-चिरस्थापिते-चिरस्थापनादोषे लघुमासः / इत्वरस्थापिते-इत्वरस्थापनादोषे पञ्चक देशितं-कथितम् / प्राभृतिकाऽपि च द्विविधा बादरसूक्ष्मप्रकाराभ्यां-बादरप्राभृतिका सूक्ष्मप्राभृतिका च / तत्र गुर्वागमनं ज्ञात्वा कोऽपि श्रावको विवाहादेरुपसर्पणमपसपणं वा यत्करोति सा बादरा / यत्तु पुत्रादौ भोजनमर्थयमाने सति साध्वर्थमुत्थिता तवापि दास्यामीति ब्रूते गृहस्था सा सूक्ष्मा / बायरपाहुडिआए चउगुरु सुहुमाइ पावए पणगं। पायडपयासकरणं तं बिंति पाउअरं दुविहं // 110 // __ व्याख्या- बादरप्राभृतिकायां-बादरप्राभृतिकादोषदुष्टाऽऽहारग्रहणे चतुर्गुरु / सूक्ष्मायां प्राभृ. तिकायां साधुः पञ्चकं प्राप्नोति / प्रादुष्करणं द्विविधं ब्रुवते समयविदः-प्रकटकरणं प्रकाशकरणमित्यमुना प्रकारेण / तत्रान्धकारादपसाय बहिः सप्रकाशप्रदेशे साध्वर्थमन्नादि स्थापनं प्रकटकरणम् / सान्धकारस्थानस्थितस्यैवाऽन्नादेर्मणि-प्रदीप-गवाक्ष-कुड्य-छिद्राद्यैरुद्योतकरणं प्रकाशकरणम् - मासलहु पयडकरणे पगासकरणे अ चउलहुं लहइ / अप्पपरदव्वभावेहि चउविहं कीयमाहंसु // 111 // व्याख्या-प्रकट करणे मासलघु / प्रकाशकरणे चतुर्लघुप्रायश्चित्तं लभते साधुः / क्रीतं चतुर्विधमवोचन्ननूचानाः / कथम् ? आत्मपरद्रव्यभावैः-आत्मद्रव्यश्रीतम् , आत्मभावक्रीतं, परद्रव्यक्रीतं, परभावक्रीतं चेति / तत्राऽऽत्मना स्वयमेव द्रव्येणोजयन्तभगवत्प्रतिमाशेषादिरूपेण प्रदानतः परमावर्य यद् भक्तादि गृह्यते तदात्मद्रव्यक्रीतम / यत् पुनरात्मना स्वयमेव भक्ताद्यर्थं धर्मकथादिना परमावर्त्य भक्तादि ततो गृह्यते तदात्मभावक्रीतम् / तथा परेण यत् साधुनिमित्तं द्रव्येण क्रोतं तत्परद्रव्यकोतम् / यत् पुनः परेण साध्वर्थं निजविज्ञानप्रदर्शनेन धर्मकथादिना वा परमावज्यं ततो गृहीतं तत्परभावक्रीतम् / अप्पपरदव्वकीए सभावकीए अ होइ चउलहुअं / परभावकीए पुण मासलहुं पावए समणो // 112 // व्याख्या-आत्मद्रव्यक्रीते परद्रव्यक्रीते स्वभावक्रीते च चतुर्लघुकं भवति / परभावक्रीते पुन सिलघु प्राप्नोति श्रमणः / अह लोउत्तरलोइअभेएणं दुविहमाहु पामिचं / लोउत्तरि मासलहू चउलहुअं लोइए होइ // 113 // व्याख्या-अथ प्रामित्यं द्विविधमाहुः लोकोत्तर-लौकिकभेदेन / तत्र यदुद्धारकेण वस्त्राद्यानीय साधुभ्यो ददाति गृहस्थस्तल्लौकिकं प्रामित्यम् / साधुरेव वस्त्राभावे साध्वन्तरपार्थाद्यदुद्धारके गृह्णाति तल्लोकोत्तरम् / तत्र लोकोत्तरे मासलघु / लौकिके चतुर्लघुकं भवति / परिअट्टि पि दुविहं लोउत्तरलोइअप्पगारेहिं / लोउत्तरि मासलहू चउलहुअं लोइए होइ // 114 //