________________ यति-जीतकल्पे ‘संखडिभत्तव्वरिअं चउण्हमुद्दिसइ जं तमुद्दिष्टुं / वंजणमीसाइ कडं तमग्गितविआइ पुण कम्म' / एकैकं पुनश्चतुर्द्धा-उद्देशसमुद्देशादेशसमादेशभेदेन / तत्र यद् उद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः पाखण्डिनो गृहस्था वा समेष्यन्ति तेभ्यः सर्वेभ्योऽपि दातव्यमिति सङ्कल्पितं तद् उद्देशम् / पाखण्डिनां देयत्वेन कल्पितं समुद्देशम् / श्रमणानामादेशम् / निर्ग्रन्थानां समादेशम् / यदुक्तं _ 'जावंतिअमुद्देसं पासंडीणं भवे समुद्देसं / समणाणं आएसं निग्गंथाणं समाएसं ' // ततश्चवं भेदाभिधानम्-उद्दिष्टोद्देशम् उद्दिष्टसमुद्देशम् उद्दिष्टादेशम् उद्दिष्टसमादेशम् / कृतोद्देशं कृतसमुद्देश कृतादेशं कृतसमादेशम् / कर्मोद्देशं कर्मसमुद्देशं कर्मादेशं कर्मसमादेशम् / एवं विभागे-विभागविषय मौदेशिकं द्वादशबिधं भवति / अथैतेषां द्वादशानां भेदानां प्रायश्चित्तमाहचउभेए उद्दिठे लहुमासो अह चउविहंमि कडे / गुरुमासो चउलहुअं कम्मुद्देसे अ नायव्वं // 105 / / ___ व्याख्या- चतुर्भदे-चतुष्प्रकारे उद्दिष्टे -पूर्वोक्तस्वरूपे गृहीते लघुमासः / अथ चतुर्विधे कृते गुरुमासः / कमों द्दशे च चतुर्लघुकं ज्ञातव्यम् / कम्मसमुद्देसाइसु तिसु चउगुरुअं भणंति समयन्नू / दुविहं तु पूइकम्मं उवगरणे भत्तपाणे अ // 106 / / व्याख्या - कर्मसमुद्देशादिषु त्रिषु भेदेषु-कर्मसमुद्देश-कर्मादेश-कर्मसमादेशेषु चतुर्गुरुकं प्रायश्चित्तं भणन्ति समयज्ञाः-श्रुतधरा-गणधरादयः / पूतिकर्म सूक्ष्मं बादरं च भवति / तत्र सूक्ष्ममाधाकर्मिकगन्धाग्निधूमादिभिः स्यात् , तददुष्टम् आचीर्णत्वादशक्यपरिहारत्वाच्च / बादरं तु पूतिकर्म द्विविधम्उपकरणे भक्तपाने च / तत्रोपकरणं चूल्लीस्थालीदादिरूपम् / चुली च'या कियता शुद्धेन कियता चाऽऽधाकर्मिकेण कर्दमेन निष्पादिता सा इत्थम्भूता उपकरणपूतिः / अनया दिशा अन्यस्याऽप्युपकरणस्य पूतित्वं भावनीयम् / आधाकर्मिकचुल्लीस्थाल्यादिषु राद्धं स्थापित वा आधाकर्मभक्तादिखरण्टितस्थाल्यादौ स्थापितं वा आधाकर्मभक्तादिलवेनाऽपि मिश्रं वा भक्तं पानं वा स्वरूपतः शुद्धमपि पूति-अपवित्रं स्यात् / यथा अशुचिलवेनाऽशनादि / एतद् भक्तपानपूतिकर्म / बगरणपूडू मासलहु मासगुरु भत्तपाणपूइंमि / जावंतिअ-जइ-पासंडि मीसजायं भवें तिविहं // 107 // व्याख्या-- उपकरणपूतौ मासलघु / भक्तपानपूतौ मासगुरु प्रायश्चित्तम् / अथ मिश्रजातं त्रिविधं भवति / यावदर्थिकमिश्रं पाखण्डिमिश्रं यतिमिश्रं च / यत् स्वस्य तेषां च योग्यं प्रथमतोऽप्यग्निजालनाऽधिश्रयणदानाद्यैरशनादि मिश्रितमेव राखुमारभ्यते तन्मिश्रमेव जातमुत्पन्नं मिश्रजातम् / जावंति मिसि चउलहु चउगुरु पासंडि सघरमीसंमि। चिर-इत्तरभेएणं निहिट्ठा ठावणा दुविहा // व्याख्या-यावदर्थिकमिश्रजाते चतुर्लधु / पाखण्डिमिश्रजाते सुष्ठ-अतिशयेनाऽगृहाः स्वगृहा. अनगारास्तैः सह मिश्रजातम् / तस्मॅिश्चतुर्गुरु / स्थापना द्विविधा निर्दिष्टा तीर्थकरादिमिः-चिरेत्वरभेदेन चिरस्थापना इत्वरस्थापना च / यत् साध्वथं स्थापयित्वा मुश्चति सा चिरस्थापना / गृहपङ्क्त्यामेकः साधुरेकत्र गृहे भिक्षां सम्यगुपयोगेन परिभावयन् गृह्णाति, द्वितीयस्तु द्वयोः पार्श्वस्थितगृहयोहस्तगते द्वे