________________ षष्ठव्रतातिचारप्रायश्चित्तम आदिशब्दान्मूलफलादिग्रहः / मोक-कायिकी, त्रिफला-आमलकहरीतकबिभीतकफलत्रयसंयोगरूपा / आदिशब्दादन्यदपि यन्निरास्वादं जिह्वाया अनिष्टम् / अयं सर्वोऽप्यनाहारः / तस्मिन्ननाहारे परिवासिते गृहीते चतुर्लघुकाः / तथो आगाढाऽनागाढग्लानत्वादिकारणमन्तरेण प्रासुकादिवस्तुपरिवासने प्रायश्चित्तं दर्शयति-- फासुअ अफासुए वाऽचित्तसचित्ते परित्तणते अ / असिणेहसिणेहगएऽणहारहारे लहुगगुरुगा // 102 // . व्याख्या-प्रासुकम-एषणीयं रात्री यदि स्थापयति तदा चतुर्लघु / अप्रासुकम् अनेषणीयं स्थापयति तदा चतुर्गुरु / अचित्ते स्थाप्यमाने चतुर्लघु / सचित्ते चतुर्गुरु / परीत्ते चतुर्लघु / अनन्ते चतुर्गुरु / अस्नेहे चतुर्लघु / स्नेहगते-स्नेहावगाढे चतुर्गुरु / अनाहारे चतुर्लघु / आहारे चतुर्गुरु / इति व्रतपटक-कायषटकविराधनाविषयप्रायश्चित्तप्रतिपादनेन मूलगुणविषयप्रायश्चित्तमभिहितं / सम्प्रति 'वयछक्ककायछकं' इत्यादि-गाथोक्तक्रमेणोत्तरगुणविषयं प्रायश्चित्तमुच्यते / तत्रोत्तरगुणा अकल्पपरिहारादयः / अकल्पश्च पिण्डशय्यावस्त्रपात्रचतुष्टयविषयः / एतेषां च क्रमेण प्रायश्चित्तमत्र प्रतिपादयिष्यते / तत्र प्रथमं पिण्डः / स च सप्तचत्वारिंशद्दोषदुष्टोऽकल्प्यः , ते चामी दोषाः____ सोलस उग्गमदोसा सोलस उप्पायणाइ दोसा उ / दस एसणाइ दोसा संजोअणमाइ पंचेव' / / पोडशोद्गमदोषा आधाकर्मादयः / ततः षोडशोत्पादनादोषा धात्र्यादयः / अथ दशैषणादोषाः शङ्कितादयः / तदनु पश्च प्रासैषणादोषाः संयोजनादयः / एतेषां च विस्तरव्याख्या पिण्डनियुक्तितोऽवसेया / लेशतश्चात्रापि यथास्थानं दर्शयिष्यते / यथा तद्विषयं प्रायश्चित्तं सुज्ञातं भवति / तत्र प्रथमं षोडशोगमदोषाणां क्रमेण प्रायश्चित्तं प्ररूपयतिआहाकम्मे चउगुरु दुविहं उद्देसिअं विआणाहि / ओहविभागे अ तहिं मासलहू ओहउद्देसे // 103 / / ... . व्याख्या- यत् साध्वर्थमेव सचित्तमचित्तीक्रियते तदाधाकर्म, तस्मिन्नाधाकर्मणि चतुर्गुरु / आधाकर्मदोषदुष्टमाहारं गृह्णानस्य साधोश्चतुर्गुरु प्रायश्चित्तं भवतीत्यर्थः / एवं सर्वत्र ज्ञेयम् / ओदेशिकं द्विविधम्-ओघतो विभागतश्च / तत्र स्वकुटुम्बार्थं पच्यमाने भक्ते पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समेष्यति, तस्य भिक्षादानार्थं कतिपयानधिकतरान् तन्दुलान् ओघेन-सामान्येन एतावत् स्वार्थ एतावच्च भिक्षादोनार्थमित्येवं विभागरहितेन गृहनायको यत् क्षिपति, एतदोघौदेशिकम् / तस्मिन्नोघोदेशिके गृहीते मासलघु / / बारसविहं विभागे चउहुद्दिढं कडं च कम्मं च / उद्देससमुद्देसादेससमाएसमेएणं // 104 // व्याख्या-वीवाहप्रकरणादिषु यदुद्धरितं तत् पृथक् कृत्वा दानाय कल्पितमेतत् विकागेनस्वसत्तातः पृथक्करणेनौदेशिकं विभागौदेशिकम् / तच्च प्रथमतस्त्रिधा-उद्दिष्टं कृतं कर्म च / तत्र स्वार्थमेव निष्पन्नमशनादिकं भिक्षाचराणां दानाय यत् पृथक्कल्पितं तदुद्दिष्टम् / यत् पुनरुद्धरितं सत् शाल्योदनादिकं भिक्षादानाय करम्बादिरूपतया कृतं तत् कृतमित्युच्यते / यत् पुनर्वीवाहप्रकरणादावुद्धरितं मोदकचूादि तद्भूयोऽपि भिक्षाचराणां दानाय गुडपाकदानादिना मोदकादि कृतं तत्कर्म / यदुक्तं