________________ यति-जीतकल्पे व्याख्या-भावपरिग्रहो रागेण द्वेषेण च भवति / तत्रोपधिरौधिक औपग्रहिकश्च / तस्मिन् द्विविधेऽप्युपधौ ममत्वं-ममीकाररूपं तस्मिन् चतुर्लघुकाः प्रायश्चित्तम् / स्तेनभयात् -चौरभयादुपधिं निक्षिपति-गोपायति, विनाशभयाद्वा बद्धमेव स्थापयति ततः ते चेव-त एव चतुर्लघुकाः / अवसन्नाःपार्श्वस्थादयो गृहिणो--गृहस्थाः श्राद्धाः स्वजना वा तेषु विषये ममत्वे चतुर्लघुकाः / स्वच्छन्दा-यथाछन्दाः तेषु स्त्रीषु च ममत्वे चतुर्गुरुकाः / ननु अवसन्नादिषु ममत्वं किमर्थं करोति ? इत्याहपरिवाराइनिमित्तं ममत्तपरिपालणाइ-वच्छल्ले / साहम्मिय त्ति संजमहेउं वा सव्वहिं सुद्धो // 19 // ___व्याख्या-परिवारः-सहायरूपः, आदिशब्दादाहारोपधिशय्याः तेषां निमित्तम् / अयमाशयःपार्श्वस्थाद्यानुकूल्येन सहायाऽऽहारोपधिशय्या लभ्यन्त इति कृत्वा पार्श्वस्थावसन्नकुशीलसंसक्तयथाछन्दादिषु श्रावकस्वजनादिषु च विषये ममत्वपरिपालनादिवात्सल्ये, ममत्वं-प्रतिबन्धरूपं परिपालनमौषधाद्यैः . आदिशब्दात् संभोगसंवाससूत्रार्थदानानि / इत्यादिके वात्सल्ये कृते सति पूर्वगाथोक्तं प्रायश्चित्तं भवति / यदि वा जोतोक्तं पुरुषविभागेन प्रायश्चित्तमत्रावगन्तव्यम् / यथा-भिक्षोभिन्नमासः / वृषभस्य लघुमासः / उपाध्यायस्य गुरुमासः / आचार्यम्य चतुर्लघु / अथ पुनः साधर्मिक इति-समानधार्मिकोऽसाविति संयमं वाऽसौ मत्संसर्गात् करिष्यतीति हेतोः / वाशब्दात कुलगणसङ्घग्लानादिकार्येषु साहाय्यादिकं करिष्यतीत्यादिबुद्धया सर्वस्मिन् ममत्वादिके वात्सल्ये कृतेऽपि शुद्धः / इत्युक्तं पञ्चममहाव्रतातिचारप्रायश्चित्तम् / अथ षष्ठव्रतातिचारप्रायश्चित्तमाहलेवाडसुक्कसंनिहिभोगे गुरुगा घयाइए छलहु / दिअगहिअ दिआभुत्ते अ छग्गुरू सेसभंगतिगे // व्याख्या-लेपकृत्-द्रव्योपलिप्तस्य पात्रबन्धतुम्बकादेः पर्युषितत्वे / शुष्कसन्निधिभोगेशुष्कानां शुण्ठी-हरीतकी-बिभीतकादीनां सन्निधिः-साधुनिश्रया रात्रौ स्थापनं, तद्भोगे च चतुर्गुरुकाः / घृतादिके आर्द्रवस्तुनि पर्युषिते गृहीते षड्लघु, आदिशब्दात् गुडकक्कयतैलादीनि गृह्यन्ले / इह रात्रिभोजने चतुर्भङगी भवति / दिवा गृहीत रात्रौ परिवास्य दिवैव भुक्तमिति प्रथमो भङ्गः / दिवा गृहीतं रजन्यां भुक्तमिति द्वितीयः / रजन्यां गृहीतं दिवा भुक्तमिति तृतीयः / रजन्यां गृहीतं रजन्यामेव भुक्तमिति चतुर्थः / तत्र दिवा गृहीतं दिवा भुक्तमिति प्रथमभङ्गे च षड्लघु / शेषभङ्गत्रिके-द्वितीयतृतीय-चतुर्थभङ्गेपु षड्गुरु / तुसभूइविंदुमित्ताहारे परिवासिअंमि चउगुरुगा / लहुगा निघाइतयाइ मोअतिफलाइऽणाहारे // व्याख्या-तुषभूतिबिन्दुमात्राहारे परिवासिते भुक्ते चतुर्गुरुकाः। तिलतुषत्रिभागमात्रमप्याहारमशनादिकं रात्रिस्थापितं यद्याहरति-सक्तुकादीनां शुष्कचूर्णानामैकस्यामगुलौ यावती भूतिमात्रा लगति, तावन्मात्रमपि परिवासितं यद्यनाति / तथा पानीयस्य बिन्दुमात्राप यदि पिबति, तदा / चतुर्गुरुका इत्यर्थः / निम्बादयो ये वृक्षा आदिशब्दात् कटुकादिवृक्षपरिग्रहः , तेषां त्वगादि-त्वक-छल्ली /