________________ पञ्चममहाव्रतातिचार-प्रायश्चित्तम् जिनानां-जिनकल्पिकानाम् / स्थविराः-स्थविरकल्पिका गच्छवासिनो ये साधवस्तेषां पुनर्गहिणां गृहेषु श्वानमार्जारादयोऽपराध्यन्तोऽपि निवारयितुं न कल्पन्ते / आत्मनस्तु भक्तादिषु वारयितुं कल्पन्त इत्यर्थः / एतेष्वेव काकादिषु प्रायश्चित्तं भणति कागनिवारणि लहुओ जाव ममत्तं तु लहुग सेसेसु / मज्झ सवासा इत्ति व तेण लहुग रागिणो गुरुगा / / व्याख्या-काकनिवारणे लघुको मासः / शेषेषु श्वानगोणादिषु निवारितेषु यावत् शय्यातरममत्वेन कल्पस्थकरक्षणेऽपि चतुर्लघुकाः / मम सवासा-एकग्रामवासिनः स्वजना वा तेन सज्ञातिकादिषु ममत्वेन कल्पस्थकं रक्षति तथाऽपि चतुर्लघुकम् / अथ कल्पस्थकं रागेण रक्षति तदा चतुर्गुरुका रागिणः / एवं प्रतिकुष्टशिष्यपरिग्रहे सामान्यतश्चतुर्गुरु / अनाभाव्यसचित्तग्रहणेऽपि चतुर्गुरुकमेव / अनेषणीयभक्तादिप्रायश्चित्तं तु अग्रे भणिष्यते / वस्त्रादीनि धर्मोपकरणानि तु परिग्रहो न भवति / तान्येव समधिकानि बहुमूल्यानि मूर्च्छया वा परिभुज्यमानानि परिग्रहः स्यात् तत्र चतुर्गुरु / एवं द्रव्यपरिग्रहप्रायश्चित्तमुक्तम् / अथ क्षेत्रपरिग्रहप्रायश्चित्तमाहओगासे संथारुवसयकुलगामनगरदेसरज्जे अ। चत्तारि छच्च लहु गुरु छेओ मूलं तह दुगं च // 9 // व्याख्या- अवकांश:-प्रतिश्रयदेशः प्रवातादिको रमणीयः तस्मिन् ममत्वं करोति / संस्तारकःसंस्तारभूमिः तस्यां ममत्वं करोति / उपाश्रयो-वसतिः तत्र ममत्वं करोति / एवं कुले-कुलं-कुटुम्बं ग्रामनगरदेशाः प्रसिद्धाः तेषु, राणकभुक्ती राज्यं, सा पुनर्भुक्तिरेकविषयोऽनेकविषयो वा भवेत् / तत्र ममत्वं करोति / एतेष्ववकाशादिषु ममत्वकरणे क्रमेण प्रायश्चित्तमिदमुत्तरार्धोक्तमवगन्तव्यम् / यथाअवकाशममत्वे चतुर्लघु / संस्तारकममत्वे चतुर्गुरु / उपाश्रयममत्वे षडलघु / कुलममत्वे षड्गुरु / ग्रामममत्वे छेदः / नगरममत्वे मूलं / देशममत्वे अनवस्थाप्यम् / राज्यममत्वे पाराश्चिकम् / एतत् क्षेत्रपरिग्रहप्रायश्चित्तम् / एवं कालपरिग्रहप्रायश्चित्तमत्रानुक्तमप्यनया गाथयो ज्ञेयम् ‘कालातीते काले कालविवच्चास कालउ अकाले / लहुओ लहुआ गुरुगा सुद्धपदे सेवए जं च // कालतोऽतीतं कालातीतम् ऋतुबद्धे मासातिरिक्तं, वर्षासु चातिरिक्तम् एकत्र स्थाने वसतः काले-कालपरिग्रहो भवति, नियतवासदोषाश्च भवन्ति / कोलस्य विपर्यासो-विपर्ययः तं करोति, कथं ? कालतःकाले ऋतुबद्धे न विहरति, अकाले-वर्षाकाले विहरति / अथवा दिवा न विहरति, रात्रौ विहरति / अत्रेदं प्रायश्चित्तम्-ऋतुबद्धे मासातिरिक्ताऽवस्थाने मासो लघुकः / वर्षातिरिक्तावस्थाने चतुर्लघुकाः / कालविपर्यासे चतुर्गुरुकाः / एतानि प्रायश्चित्तानि शुद्धपदे भवन्ति / शुद्धपदं नाम यद्यप्यपराधं न प्रोप्तस्तथापीत्यर्थः / यच्चात्म-संयम-प्रवचनविराधनं सेवते तन्निष्पन्नं प्रायश्चित्तं द्रष्टव्यम् / अथ भावपरिग्रहप्रायश्चित्तमाहवहिममत्ते लहुगा तेणभया निक्खिवंति ते चेव / ओसन्नगिहिसु लहुगा सच्छंदित्थीसु चउगुरुगा / /