________________ 64 यति-जीतकल्पे पुरिसस्सित्थीफासे चउलहु इत्थीइ होइ चउगुरुअं / लहुगं संतरफासे अंचलतिरिकासणे मिन्नं // 11 // व्याख्या-पुरुषस्य-संयतस्य स्त्रीस्पर्श निरन्तरे चतुर्लघुकम् / स्त्रियास्तु-संयत्या निरन्तरे पुरुषस्पर्श चतुर्गुरुकं भवति / संयतस्य संयत्याश्च सान्तरे विपक्षस्पर्श लघुमासः / वस्त्राञ्चलाभ्यामेव स्पर्शने परम्परास्पर्शने इत्यर्थः / तिर्यश्चीनां च स्पर्शने भिन्न-भिन्नमासः प्रायश्चित्तं भवति / इत्यभिहितं चतुर्थमहाव्रतातीचारप्रायश्चित्तम् / . अथ पञ्चममहाव्रतातिचारप्रायश्चित्तमाहसुहुमो अ बायरो वा दुविहो लोउत्तरो समासेणं / कागाइसाणगोणे कप्पठगरक्षणममत्ते // 92 / / सेहाई पडिकुठे सचित्तेणेसणाइ अचित्ते / ओरालिए हिरण्णे छकाय परिग्गहे जं च // 93 / / व्याख्या-परिग्रहो द्विविधो-लौकिको लोकोत्तरश्च / तत्र लौकिको द्रव्य-क्षेत्र-काल-भावभेदाच्चतुर्की / लोकोत्तरः पुनः समासेन-सङक्षेपेण द्विधा-सूक्ष्मो बादरश्च / तत्रेषन्ममत्वभावः सूक्ष्मः परिग्रहः / तीवो ममत्वभावो बादरः परिग्रहः / एष द्विविधोऽपि परिग्रहः पुनश्चतुर्दा-द्रव्ये क्षेत्रे काले भावे च / तत्र द्रव्ये काकादि पश्चाई / आत्मनः पानकादि काकमपराध्यन्तं निवारयति / आदिग्रहणात् श्वानशृगालादिकं, वानं वा दशन्तं गोणं वा बलीवदं वसत्यादिष्वपराध्यन्तं शय्यातरादीनां वा कल्पस्थकं-बालकमन्यापदेशेन रक्षति / स्वजनादिषु वा ममत्वं करोति / शैक्षा वा प्रतिकुष्टाः-प्रव्रज्याऽयोग्याः पूर्वमुपदर्शिता अष्टचत्वारिंशत् प्रवाजयतः परिग्रहो भवति / अनाभाव्यं वा अप्रत्राजनीयं सचित्तं शिष्यादि वस्तु प्रव्राजयतः परिग्रहो भवति / आदिशब्दो भेदवाचकः / अनेषणीय वा अचितभक्तादि गह्वानस्य परिग्रहः स्यात / आदिशब्दो भेदवाचकः आदिशब्दादा वस्त्रपात्रशय्या गह्यन्ते / अचित्तग्रहणाद्वाऽतिरिक्तोपधिग्रहणं करोति / स चानपकारित्वात परिग्रहो भवति / ओरालियं-घटितरूपं द्रविण, अघटितरूपं हिरण्यं एतानि गृहणतः परिग्रहो भवति / षटकायान् जीवनिकायान् सचित्तपृथिवीकायादिकान् गृानस्य परिग्रहो भवति / 'जं च 'त्ति / यच्च / एतेषु काकादिषु प्रायश्चित्तं तच्च द्रष्टव्यं तदेव दर्शयतिपंचाई लहुगुरुगा एसणमाईसु जेसु ठाणेसु / गुरुगा हिरण्णमाई छकायविराहणे जं च // 94 / / ____ व्याख्या- पञ्चकादीनि प्रायश्चित्तानि लघूनि गुरूणि वा एषणादिषु येषु येषु स्थानेषु यानि सम्भवन्ति तानि दोतव्यानि / अथवा पञ्चकमादौ कृत्वा चतुर्लघु चतुर्गुरु येषु स्थानेषु यत् प्रायश्चितं सम्भवति तद्दातव्यम् / आदिशब्दादुत्पादनोद्गमौ गृह्यते / हिरण्यं गृह्णानस्य चतुर्गुरुकाः / आदिशब्दादोरालिकेऽपि चतुर्गुरुकाः / षट्कायविरोधने यत् प्रायश्चित्त तत् षट्कायपरिग्रहे द्रष्टव्यं, तच्च पुरापि प्रतिपादितम् / इममेवाएं स्पष्टतरं व्याख्यानयतिगिहिणोऽवरज्झमाणे सुणमज्जाराइ अप्पणो वावि / वारेऊण न कप्पइ जिणाण थेराण उ गिहीणं / / 15 / / व्याख्या-गृहिणो-गृहस्थस्यापराध्यन्त्रि-अपराध कुर्वन्ति श्वा मार्जारो वा। आदिशब्दात् गोणादयो वा। आत्मनो वा एते भक्तादिष्वपराध्यन्ति / तेऽपराध्यन्तोऽपि निवारयितुं न कल्पन्ते