________________ 63 हस्तकर्मविषयक-प्रायश्चित्तम् पुत्तीए-एताओ दासीओ सव्वं धन्नादि अवहरंति, तुम कोडायारं पडिअरसु, तहत्ति पडिवन्नं / सा जाव अन्नस्स भत्तयं देइ / अन्नस्स वित्ति, अन्नस्स तंदुला, अन्नस आयं देक्खति. अन्नस्स वयं / एवमादि किरिआसु वावडाए दिवसो गतो। सा अतीव खिन्ना रयणीए निविण्णा अम्मधातीए भणिता-आगेमि ते पुरिसं / सा भणति न मे पुरिसेण कजं निदं लहामि' / एवं गीतार्थस्यापि सूत्रार्थपोरुषीं ददानस्यातीव सूत्रार्थेषु व्यापृतस्य कामसङ्कल्पो न जायते / भणितं च -- काम ! जानामि ते मूलं सङ्कल्पात किल जायसे / तमेव न करिष्यामि येन मे प्रभविष्यसि // एवं निर्विकृत्यादिप्रकारेण यतमानस्य कस्यापि साधोर्मोहोपशमो भवेत् क्स्यापि तु न भवेत् / यथा गिरिनद्यां पूर्णायां कृतप्रयत्नोऽपि कश्चित् पुरुषः तीक्ष्णेनोदकवेगेन हियते / अथवा निम्नोन्नते तथाविधकर्दमे वा कृतप्रयत्नोऽपि कश्चिद्यथा पतनं प्राप्नोति / एवं सर्वप्रयत्नेन यतमानस्याऽपि कस्यचित् साधोः कर्महेतुका चारित्रविराधना भवेत् / एवं स उदीर्णमोहोऽदृढधृतिरसमर्थोऽधिसोढुं ततो हस्तकर्म करोतीति तद्विषयं प्रायश्चित्तमाहपढमाइ पोरिसीए विअ-तइअ-चउत्थिाइ करकम्मे / मूलं छेअं छम्मासमेव चत्तारि जा गुरुगा // 88 // व्याख्या-रात्रौ प्रथमपौरुष्या मोहोद्भवो जातः। तस्यामेवादृढधृतिर्यदि हस्तकर्म करोति तदा मूलम् / अथ प्रथमपौरुषीमधिसह्य द्वितीयायां पौरुष्यां करोति तदा छेदः / द्वे पोरुष्योवधिसह्य तृतीयायां करोति तदा षड्गुरुका मासाः / तिस्रः पौरुषीरधिसह्य चतुर्थी कुर्वाणस्य चत्वारो गुरुकाः / एवं पौरुषी-पौरुषीसहने एकैकं प्रायश्चित्तस्थानं हसति / उपलक्षणत्वादिदमप्यवगन्तव्यम् / रात्री चतुरो यामानधिसह्य द्वितीयदिवसे प्रथमपौरुष्यां करकर्म कुर्वाणस्य मासगुरुकम् / ततः परं सर्वत्रापि मासगुरुकमेव / लघूनि तु प्रायश्चित्तान्यत्र न भवन्ति / करकर्मसेवनस्यानुद्घातिमत्त्वात् / - एतद्विषयमेव प्रायश्चितं पुनः प्रकारान्तरेणाहसेवामि त्ति अ मिहुणं चउगुरुगं छग्गुरूअ करकम्मे / तंमि वि बहुवारकए पच्छित्तं पंचकल्लाणं // 89 / / व्याख्या-मैथुनं सेवाभि-मैथुनसेवां करोमीति सङ्कल्पेनोदीर्णकामो भवेत्ततोऽदृढधृतितयाऽधिसोढुमशक्तो यदि करकर्म करोति तदा षड्गुरुकम् / तस्मिन्नपि करकर्मणि बहुवारकृते-असकृत कृते प्रायश्चित्तं पञ्चकल्याणं पूर्वोक्तमेव तानि पञ्च भवन्ति तथा- . मूलं इत्थितिरिक्खिनपुंसनरआसपोससेवाए / थीवयवफासि लहुगा अंचलतिरिफासणे पणगं // 9 // व्याख्या-स्त्री-तिर्यञ्ची-नपुंसकनराणां आसपोषसेवायाम्-आम्यपोषाभ्यां यो सेवाऽनाचाररूपा तस्यां विहितायां मूलं प्रायश्चित्तं भवति / स्त्रीणामवयवाः-शरीरप्रदेशा हस्तादयः तेषां स्पर्श निरन्तरे लघुकाश्चत्वारः / स्त्रीणामञ्चलेन-परिधोनादिवस्त्रप्रान्तेन स्पर्शने सान्तरे तिर्यक्लीणां-गोमहिष्यादीनां स्पर्शने च पश्चकं-पश्चकाऽऽख्यं प्रायश्चित्तं स्यात् / अथवा