________________ 62 यति-जीतकल्पे वक्ष्यमाणा निर्विकृत्यादियतनाऽवगन्तव्यो / एवं यतमानस्यापि कस्यापि हीनसत्त्वस्य साधोः कामाग्निः सन्दीप्यते; ततः कौतुकादयो दोषा भवेयुस्तानाहकोऊहलं व गमग सिंगारे कुड्डुछिड्डकरणे अ / दिट्ठी परिणय करणे भिक्खू मूलं दुवे इअरे // 85 // व्याख्या-कुतूहलं तस्य उत्पद्यते कथमनाचारं सेवन्त ? इति / अथ तस्याऽभिप्रायो जायते आसन्ने गत्वा पश्यामि शब्दं वो शृणोमि / एतदत्र साक्षादनुक्तमपि वाशब्दसूचितमवगन्तव्यम् / एव. मभिप्राये उत्पन्ने तत्र गमनं कुर्यात् / ततः शृङ्गारशब्दान् कुड्यकटान्तरे शृणुयात् विलोकनाय वा कुडये छिद्रकरणं तेन च छिद्रेणानाचारं सेवमानानां दृष्टिः-दर्शनं, ततोऽनोचारं दृष्ट्वाऽहमन्येवं करकर्म करोमीति सोऽपि तद्भावपरिणतो भवेत् / ततः करकर्मकरणम् / एतेष्वष्टस्वपराधपदेषु भिक्षोमूलं यावत् प्रायश्चित्तम् / 'दुवे 'त्ति / द्वयोरुपाध्यायाचार्ययोरितरे-अनवस्थाप्यपाराश्चिके क्रमेण चरमपदे भवतः / इदमेव व्यक्त्या दर्शयतिलहुगुरु लहुगा गुरुगा छल्लहु छग्गुरुगमेव छेओ। करकम्मस्स य करणे भिक्खू मूलं दुवे इअरे // व्याख्या-कुतूहले उत्पन्ने लघुमासः, अभिप्राये गुरुमासः, गमने चतुर्लघुकाः, शृङ्गारशब्दश्रवणे चतुर्गुरुकाः, कुड्यस्य छिद्रकरणे षड्लघुकाः, छिद्रेणानाचारविलोकने षड्गुरुकाः, करकर्मकरणपरिणामे छेदः, करकर्मकरणे च मूलम् / एवं भिक्षोः प्रायश्चित्तम् / उपाध्यायस्य मोसगुरुकादारब्धमनवस्थाप्ये पर्यवस्यति / आचार्यस्य चतुर्लघुकादारब्धं पाराश्चिके तिष्ठति / एवं सनिमित्तस्यानिमित्तस्य वा मोहोदयस्य ध्यानाऽध्ययनादिभिरधिसहनं कर्त्तव्यं तथाऽप्यनिवृत्तावेषा चिकित्सा कार्यानिविगइ निब्बलोमे तव उद्घट्ठाणमेव उब्भामे / वेआवच्ची हिंडण मंडलि कप्पढिआहरणं // 87 // ___ व्याख्या-मोहोदये जाते सति तन्निवृत्त्यर्थं निर्विकृतिकमाहारमाहारयति, तथाप्यनुपशमे निर्बलानि वल्लचणकादीन्योहारयति / एवमप्यनिवृत्ताववमौदरिकां करोति / तथाप्यनुपरमे चतुर्थादि यावत् पाण्मासिकं तपः करोति / पारणके च निर्बलमाहारमाहारयति / यद्यपशाम्यति तदा सुन्दरम् / अथ नोपशाम्यति तदा ऊर्ध्वस्थानं-महान्तं कायोत्सर्ग करोति / तथाऽप्यनुपशमे उद्भ्रामे-मिक्षाचर्यायां गच्छति / अथवा साधूनां विश्रामणा दिवैयावृत्यं कार्यते / अथवा देशहिण्डकानां सहायो दीयते / एवमगीतार्थस्य यतना / गीतार्थः पुनः सूत्रार्थमण्डली दाप्यते / अथवा गीतार्थस्यापि निर्विकृतिकादिविधिद्रष्टव्यः / नोदकः प्राह-ननु यदि तावदगीतार्थस्य निर्विकृत्यादितपोविशेषादुपशमो न भवति, ततो गीतार्थस्य कथं शीतलछायादिस्थितस्योपशमो भविष्यति ? / गुरुः प्रत्याह पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः / संयमयोगैरोत्मा निरन्तरं व्यापृतः कार्यः / / कल्पस्थिका-बालिका तस्या आहरणं-उदाहरणम् / तच्चेदम्-एगस्स कुटुंबिगस्स धूआ नियकम्मवावारा सुहासणत्था अच्छइ / तस्स अन्भंगुब्वट्टण-हाणविलेवणादिपरायणाए मोहब्भवो अम्मधाति भणाति-' आणेहि मे पुरिसं / तीए अम्मधातीए माउए से कहिअं / तीए वि पिऊणो / पिउणा वाहरिया भणिआ