________________ वसतिः त्रिधा स्थातव्यं, तदभावे ज्योतिष्प्रतिबद्धायां वसतौ स्थेयं, तदभावे बहिर्वक्षस्याऽधस्तात् / अथ बहिः स्तेनश्वापदभयं वृष्टिर्वा ततो भावप्रतिबद्धायामपि वसतौ तिष्ठन्ति / तत्रापि प्रथमं रूपप्रतिबद्धायां तत्र च पूर्वभणितदोषपरिहरणार्थमन्तरे कटादिकं ददति / तस्या अप्यभावे प्रस्रवणप्रतिबद्धायां, तत्रापि पूर्वभणितदोषपरिहाराय मात्रके व्युत्सृज्यान्यत्र परिष्ठापयन्ति / मात्रकाभावे अन्यस्थानाभावे च वृन्देन बोलं कुर्वन्तः कायिका. भूमौ प्रविशन्ति / तासां च या वेलो तां वर्जयन्ति / प्रस्रवणप्रतिबद्धाया अप्यभावे शब्दप्रतिबद्धायां तिष्ठन्ति / तत्रापि प्रथमं भूषणशब्दप्रतिबद्धायां पश्चाद् भाषाशब्दप्रतिबद्धायां तत्रापि पूर्वोक्तदोषपरिहाराय समुदिता महता शब्देन स्वाध्यायं कुर्वन्ति, ध्यानसलब्धयो वा ध्यानं ध्यायन्ति / तदभावे स्थानप्रतिबद्धायां तिष्ठन्ति / तत्रापि पूर्वोक्तदोषपरिहरणार्थमुपकरणं विप्रकीर्णं तथा स्थापयन्ति यथा तासां स्थानं न स्यात् / स्वयं वा विप्रकीर्णास्तिष्ठन्ति / स्थानप्रतिबद्धाया अप्यभावे रहस्यशब्दप्रतिबद्धायां तिष्ठन्ति / तत्रापि दोषपरिहाराय वैराग्यकरं श्रुतं पठन्ति, यथा तं शब्दं न शृण्वन्ति / अथवा यदस्खलितं श्रुतं यस्याऽऽगच्छति स तद्गुणयति, ध्यानसलब्धिानं ध्यायति / ध्याने पाठे वा योऽलब्धिः स कौँ स्थगयति, तथापि यदि शब्दं शृणोति तदा शब्दं करोति तथा यथा तयोर्लज्जितयोर्मोहो नश्यति / तथापि यदि न तिष्ठत्यनाचारसेवनात् तदा जनज्ञातं करोति / इति तृतीयभङ्गवसतौ दोषयतना / अथ द्रव्यतो भावतः प्रतिबद्धा वसतिरिति प्रथमभङ्गः / तत्र द्रव्यप्रतिबद्धभावप्रतिबद्धोभयपक्षोक्ता दोषा यतना चाऽवगन्तव्या / एवं पशुपण्डकसंसक्तवसतावपि दोषा यतना च स्वयमवसातव्याः / अथवा वसतिनिधायुक्तप्रमाणा अतिरक्तप्रमाणा हीनप्रमाणा च / तत्र साधुभिस्त्रिहस्तभूमिखण्डरूपसंस्तारकप्रमाणं गृह्णानैर्या सर्वापि व्याप्यते सा युक्तप्रमाणा / या न व्याप्यते साऽतिरिक्तप्रमाणा। यत्र सम्बाधया तिष्ठन्ति सा हीनप्रमाणा / एतासु तिसृष्वपि विद्यमानासु प्रथमायां स्थातव्यम् / तदभावे हीनप्रमाणायां, तदलाभेऽतिरिक्तप्रमाणायाम् / तत्रातिरिक्तप्रमाणघङ्घशाला दिवसतौ स्थिताः साधवो भूमौ वस्त्र-पात्राणि संस्तारकानऽर्दवितान् तथा कुर्वन्ति यथा तानि दृष्ट्वा स्थातुमनसोऽपि न तिष्ठन्ति / एषा दिवा यतना / अथ . रात्रौ वेश्यादिस्त्रीसहितः पुरुषः आगच्छति, ततोऽनुकूलप्रतिकूलवचनप्रकारैर्निवारणीयः / अथ न निवारयन्ति ततश्चतुर्लघुकम् / दोषाश्चाज्ञादयः / अथ वेश्यादिर्न निगच्छति तदा साधुभिर्निर्गन्तव्यमन्यत्र शून्यगृहादौ स्थातव्यं. तदभावे वृक्षमूलादावपि स्थेयम् / अथ बहिः स्तेनश्वापदभयं वर्ष वा वर्षति ततस्तत्रैव यतनया तिष्ठन्ति / अथवा भिक्षादिनिमित्तं वसतेबहिर्निर्गतस्य साधोः स्त्रीणां भाषाभूषणपरिचारशब्दान् श्रुत्वा रूपालिङ्गनविविधविलासान् प्रतिसेवनां कुर्वतो वा दृष्ट्वा अचेतनानि वा काष्ठ-पुस्तचित्रकर्मादिविनिर्मितानि स्त्रीरूपाणि समीक्ष्य स्त्रीभिः सह पूर्व यानि रतिक्रीडितानि तानि वा स्मृत्वा मोहोदयो भवेत् / तत्रापि वैराग्यभावनया दृष्टिपतिसंहरणादिना च यतनो कर्तव्या। एष सनिमित्तो मोहोदयः / अथाऽनिमित्तो यो मोहोदयः स त्रिविधः-कर्मोदयत आहारतः शरीरोपचयतश्च / तत्र क्षुधातस्य पिपोसापीडितस्य स्वभावेन ग्लानत्वेन वा कृशशरीरस्य यो बाह्यशब्दादिनिमित्तमन्तरेण मोहो जायते स कर्मोदयतः / प्रणीताऽऽहारादिभोजनाद् यो मोहोदयः स्यात् स आहारतः / आहारतो रसस्योपचयः, ततो रुधिरस्य, ततो मांसस्य, ततो मेदसः, ततोऽस्थ्नां ततो मज्जायाः, ततोऽपि शुक्रस्योपचयस्तस्माच मोहोदयः / एवं यो मोहोदयो भवेत् स शरीरोपचयतः / एवमनिमित्तो मोहोदयो भवेत् / तत्रोऽपि