________________ यति जीतकल्पे कौटुम्बिक-पथिक-लोहकार-यान्त्रिक-मत्स्यबन्धकादयो लोकाः तेषु तेषु नानाप्रकारपापव्यापारेषु प्रवर्तन्ते / अथाऽधिकरणभयाद्यदि साधवः तूष्णीकास्तिप्ठन्ति तदा सूत्रार्थहान्यादयो दोषा भवन्ति / तस्माद् द्रव्यप्रतिबद्धायां वसतौ न स्थातव्यम् / अथ द्रव्यभावाऽप्रतिबद्धवसत्यलाभे द्रव्यप्रतिबद्धायामपि वसतौ साधवः स्थितास्तदा शब्दे यतनां कुर्वन्ति / यथा -असंयता न जाग्रति / अथ भावतः प्रतिबद्धा न द्रव्यत इति तृतीयभङ्गे या वसतिर्भवति तस्या भेदकथनपुरस्सरं प्रायश्चित्तमाह भावपडिबद्धिपासवणमाइपयचउगि भंगसोलसगं / पनरसपएसु चउगुरु दोसा आणाइ सविसेसा // 84|| व्याख्या-भावप्रतिबद्धायां वसतौ, मकारस्यालाक्षणिकत्वात् प्रस्रवणादिपदचतुष्केन भङ्गषोडशकं भवति / तद्यथा-प्रस्रवणप्रतिबद्धा, स्थानप्रतिबद्धा, रूपप्रतिबद्धा, शब्दप्रतिबद्धा एष प्रथमो भङ्गः / प्रस्रवणप्रतिवद्धा, स्थानप्रतिवद्धा, रूपप्रतिबद्धा, न शब्दप्रतिबद्धा अयं द्वितीयः / एवं चारणिकाक्रमेण षोडशभङ्गाः कर्त्तव्याः / तत्राऽऽद्येषु पञ्चदशभङ्गकेषु-पञ्चदशभङ्गभावप्रतिबद्धवसतिष्वित्यर्थः / तिष्ठतां साधूनां . चतुर्गुरु प्रायश्चित्तं भवति / आदेशेन वा प्रथमभङ्गे चत्वारश्चतुर्गुरुकाः / एवं यत्र भङ्गे यावन्ति पदानि विरुद्धानि तत्र तावन्ति चतुर्गुरूणि भवन्ति / षोडशो भङ्गः शुद्धः / तथा आज्ञादयो दोषाः सविशेषा द्रव्यप्रतिबद्धवसतिसकाशात् भावप्रतिबद्धवसतो सविशेषतरा भवन्तीत्यर्थः / तथाहि-यत्र साधूनामसंयतीनां च एका कायिकाभूमिः सा प्रस्रवणप्रतिबद्धा / तत्रेमे दोषाः-साधुः स्त्रियं दृष्ट्वा क्षुभ्यति, स्त्री वा साधु दृष्ट्वा क्षुभ्यति / अन्योऽन्यं वा क्षुभ्यतः / ततो यदि स्त्रो साधौ क्षुभ्यति तां च यदि प्रतिसेवते ततो व्रतभङ्गः / अथ नेच्छति तदोड्डाहं करोति / एवमुभयथापि दोषः / अथ 'साधुः स्त्रियां क्षुभ्यति ततः सा स्त्री सेच्छाऽनिच्छा वा स्यात् / यद्यनिच्छा ततो उड्डाहं करोति / अथ सेच्छा ततो बतभङ्ग एव / कायिकाभूमौ च स्त्रीप्रविष्टा पश्चात्साधुरपि प्रविष्टोऽन्येन केनापि दृष्टः ततोऽनाचारशङ्का / ततो वसत्यादेव्युच्छेदं करोति, प्रदृिष्टो वा ग्रहणकर्षणव्यवहारादि कुर्यात् / यत्र स्त्रीणां संयतानां च एकं स्थानं तत्रेमे दोषाः / दुष्प्रावृतं छन्नमङ्गमूर्वादि दृष्ट्वा भुक्तभोगस्य साधोः स्मृतिकरणं भवति / तस्य वा साधोः सागारिकं दृष्ट्वा स्त्रो क्षुभ्यति, शङ्कते वा एष साधुः सागारिकं दर्शयति किं मां प्रार्थयति / ब्रह्मचयम्य चाऽगुप्तिः स्यात् / परस्परं च लज्जानाशः, अभीक्ष्णदर्शनेन वा प्रोतिवृद्धिः। लोक उत्प्रासवचनेन ब्रवीतिसाधु तपोवनवासः राजादिर्वा निवारयति मा एतेषां मध्ये कोपि प्रव्रजतु / एवं तीर्थव्युच्छेदः / रूप प्रतिबद्धायां पुनः साधुः स्त्रीणां सविलास चक्रमणस्थानप्रेक्षितप्रहसितसविस्मितमुखादीन् बहुविधाना. कारान् पश्यति / ततो भुक्तभोगस्य स्मृतिकरणं भवति / अभुक्तभोगस्य तु कौतुकं नैव मया मानुष्यकाः कामभोगा भुक्ता एवं तेषामुन्निष्क्रमणादयो दोषा भवन्ति / ताः स्त्रियो वा तत्रस्थितान् साधून् दृष्टवा एवं चिन्तयेयुः। अहो ! जल्लमलमलिनदेहानामप्येतेषां साधूनां कीदृशी लावण्यश्रीः। गृहवासे पुनरभ्यङ्गादिसंस्कारेणास्याः सकाशात् शतगुणा आसीदिति / शब्दप्रतिबद्धायां तु स्त्रीणां गीतानि पठितानि सविकारहसितानि मञ्जुलालापान् वलयनू पुरादिभूषणशब्दान् मैथुनशब्दाँश्च श्रुत्वा साधूनां मनः क्षुभ्यति / तत उन्निष्क्रमण करोति / स्वलिङ्गस्थितो वाऽनाचारमाचरति हस्तकर्म वा करोति / . तस्मादेतदोषपरिहरणार्थ न स्थातव्यं भावप्रतिबद्धवसतौ / अथ शुद्धा वसतिर्न लभ्यते ततो द्रव्यप्रतिबद्धायां