________________ स्थविरादिदायकदोषप्रायश्चित्तम् 77 अइरतिरोसाहरिए मीसेसु तेसु मासलहुपणगा। अइरतिरोसाहरिए पणगं पत्तेअणंतबीएसु // 146 // व्याख्या- तेषु पृथ्वीकायादिषु पूर्वोक्तेषु मिश्रेषु-सचित्ताऽचित्तरूपेषु अतिरस्तिरःसंहृतेअनन्तरपरम्परसंहते क्रमेण मासलघुपञ्चके / प्रत्येकानन्तबीजेषु-प्रत्येकसाधारणवनस्पतिबीजेषु अतिरस्तिरःसंहृते-अनन्तरपरम्परसंहृते पञ्चकम् / सचित्तअगतेसु अणंतरपरंपरम्मि साहरिए / चउशुरुमासगुरु कमा मीसेसु मासगुरुपणगा // 147 / / . व्याख्या-अनन्तेषु-अनन्तकायरूपेषु कन्दादिषु सचित्तेषु-सजीवेषु अनन्तरपरम्परसंहृते क्रमाचतुर्गुरुमासगुरुके / अनन्तरसंहृते चतुर्गुरु, परम्परसंहृते मासगुरु / मिश्रेषु सचित्ताऽचित्तरूपेषु पुनरनन्तकायेषु अनन्तरपरम्परसंहृते क्रमान् मासगुरुपश्चके स्योताम् / चउगुरु अचित्तगुरुसाहरिए अह दायगत्ति थेराई / थेरपहुपंडवेविर जरि अंधऽव्वत्त मत्त उम्मत्ते // व्याख्या -- अचित्ते-निर्जीवे गुरुणि-बहुभारे शिलापुत्रकादिद्रव्ये दर्वीकरोटिकादेरुपरिभागात् संहृते अथवा देयवस्तुभाजनस्योपरिभागान्महति भाजने अचित्तबहुभारे संहृते-उत्पाटयाऽन्यत्र स्थापिते चतुर्गुरु / एवं सचित्ताऽचित्तमिश्रविषयसंहृतदोषप्रायश्चित्तमभिहितम् / अथ एतदनन्तरं दायकः स्थविरादिरित्येवंविधो दोषः- स्थविरादिभिर्दीयमाने दायकदोषो भवेदित्यर्थः / अतस्तेषां स्थविरादीनां नामग्राहं प्रतिपादनार्थमाह- थेरपहुपंडवेविरे 'त्यादि / स्थविरो-वृद्धः सप्ततिवर्षाणां मतान्तरापेक्षया षष्टिवर्षाणां वा उपरिवर्ती। स्थविरस्य च हस्तेन मिक्षाग्रहणे निपतन् षड्जीवनिकायविराधनादिदोषा भवेयुः / अतस्तद्धस्तेन उत्सर्गतो न गृह्यते 1 / तथा अप्रभुः-दीयमानभक्तादेः अस्वामी भृतकादिस्तेन दीयमाने प्रभोरप्रीतिः स्यात् 2 / पण्डः-पण्डको नपुंसकस्तस्मिन् दायके लोकापवादशङ्कादिदोषाः 3 / वेपमान:कम्पमानशरीरः तद्दाने परिशाटनभाजनभङ्गादिदोषाः 4 / ज्वरितो-ज्वररोगपीडितः / ततो भिक्षाग्रहणे वरसङ्क्रमणजनापवादादयो दोषाः 5 / अन्धः-चक्षुर्विकलः / तस्य हि भिक्षां ददतः कायवधस्खलनपतनभाजनबहिर्भक्तक्षेपणजनवचनीयतादयो दोषाः 6 / अव्यक्तो-बालो जन्मतो वर्षाष्टकाभ्यन्तरवर्ती / तेन दीयमाने तज्जनन्यादेः प्रद्वेषः 7 / मत्तः-पीतमदिरादिः / स चाशुचित्वाऽऽलिङ्गनहननभाजनभङ्गकरणादिदोषदुष्टत्वात् साधुभिक्षादानाऽयोग्यः 8 / उन्मत्तो-दृप्तो ग्रहगृहीतो वा सोऽपि मत्तवद् दुष्टः 9 / तथाछिन्नकरचरणगुब्बिणिनिअलंडुअबद्धबालवच्छाए / खंडइ पीसइ मुंजइ जिमइ विरोलइ दलइ सजिअं // ठवइ बलिं उवउत्तइ पिढराइ तिहा सपञ्चवाया जा / साहारणचोरिअगं देइ परक्कं परटुं वा // 150 / / व्याख्या-छिन्नकरः-कर्त्तितहस्तः छिन्नचरणो-लूनपादः , एताभ्यां च सकाशात् भिक्षा न ग्राह्या, दानाऽसमर्थत्वाल्लोकापवादादिदोषसम्भवाच्च 10-11 / गुर्विणी-आपन्नसत्त्वा, तत्सकाशाद गच्छनिर्गता जिनकल्पिकादयः प्रथम दिनादारभ्य भिक्षा न गृहन्त्येव 12 / स्थरविरकल्पिकास्त्वष्टौ मासोन् यावत् गृहन्ति, नवममासे तु न गृहन्ति निषदनोत्थानाभ्यां गर्भपीडासम्भवात् / निगडेन-लोहमयपादबन्धनेन बद्धः 13 अण्डुकेन-कोष्ठमयकरबन्धनेन बद्धः / एताभ्यां सकाशात् परितापनादिदोषसम्भवाद् भिक्षा न ग्राह्या 14 / बालवत्सा-स्तन्योपजीविशिशुका / तया दीयमानं न कल्पते. निक्षिप्त