________________ द्वितीयमहावतातिचारप्रायश्चित्तम् 57 गर्हितः / एवमुपस्थितः सङ्ग्रहीतव्यः / तत्राऽप्येते न सङ्ग्राह्याः-योऽधिकरणं कृत्वा समागतः, यश्च प्रत्यनीको मेऽत्रेत्यागतः, यश्चानुबद्धरोषः येन वाऽऽचार्य एकाकी त्यक्तः / प्रत्यनीके पुनरपि भजना / गृहस्थप्रत्यनीको ग्राह्यः। संयतप्रत्यनीको न सङ्ग्राह्यः। गत्वा तं क्षामयेति वो भणितव्यः / यदि न क्षामयति तदा न सङ्ग्राह्यः / यदि क्षामयति तदा सङ्ग्राह्यः / / एतत् प्रासङ्गिकमभिधाय पुनः प्रस्तुतद्वितीयमहाव्रतातिचारप्रायश्चित्तशेषमाह - सावजसुबहुपडिणीअ-भासणे विगहकलहकंदप्पे / चउलहु सेसे सबहिं लहुअसमायारिनिष्फन्नं // व्याख्या-सावद्यानि-सपापानि यानि वचनानि पापनिबन्धनानि भवन्तीत्यर्थः / अतिवहूनि निरर्थकानि असम्बद्धानि यानि, प्रत्यनीकानि-चाऽऽचार्यादि प्रति प्रतिकूलानि यानि हीला-खिसादिरूपाणि तेषां भोषणे / विकथाश्चतर्विधाः-स्त्रीभक्तदेशराजकथारूपाः / तत्र स्त्रोकथा-जातिकलरूपलावण्यलीलागतिभाषाशृङ्गारवर्णनादिरूपा / तस्यां चात्मपरमोहोदीरणोड्डाहस्वाध्यायसंयमयोगपरिहोणि-ब्रह्मव्रताऽगुप्तिप्रसङ्गादयो दोषा भवेयुः। भक्तकथा-नानाप्रकारशाकरसवतीघृतादि-प्रमाणादिवणं नरूपा / अस्यां चाऽऽहारगृद्धिलोकापवादरसनेन्द्रियाऽजयषट्जीवनिकायवधानुमोदनादयो दोषा भवन्ति / देशकथानानाविधदेशाचारनेपथ्यभोजनविधिवापीकूपसरोवरादिवर्ण नरूपा। एतस्यां च रागद्वेषोत्पत्तिस्वपक्षाधिकरणादयो दोषा प्रादुष्यन्तिं / राजकथा-बलवाहनकोशकोष्ठागारप्रमाणनिर्गमप्रवेशशोभावर्ण नादिरूपा / अस्यां च चौरहेरिकादिशङ्काकौतुकनिदानादयो दोषोः स्युः / एतासु चतुर्विधास्वपि विकथासु / अथवा विरुद्धा-पापानुबन्धिनी कथा विकथा / सा च सामान्येनेयम् 'इत्थिकहो भत्तकहा रायकहा चोरजणवयकहा य / नडनट्टजल्लमुट्ठिअ कहाओ एसा भवे विकहा ' // एवंविधायां विकथायाम् / कलहे-कलहकारिवचने / यानि वचनानि कामोद्दोपनानि हास्यगर्भाणि परेषां हास्योत्पादकानि वा तानि कन्दर्पः तस्मिन् कन्दर्प चतुर्लघु / एतेषु सर्वेष्वपि स्थानेषु प्रत्येकं चतुर्लघु प्रायश्चित्तं भवतीत्यर्थः / स्त्रीविकथायां तु निशीथे चतुर्गुरु / शेषे-उक्तेभ्योऽवशिष्टे द्वितीयव्रतातिचारे सूक्ष्ममृषावादलक्षणे सर्वत्र लघुमासोऽसामाचारीनिष्पन्नः / एवमन्यत्रापि सर्वत्राऽसामाचार्यां लघुमासो मन्तव्यः / एतेषु पुनः स्थानेषु मृषावादोऽपि न दोषाय / यथा -- उडाहरक्खणट्ठा संजमहेउ व बोहिगे तेणे / खित्तम्मि व पडिणीए सेहे वा खिप्पलोए वा' / / यदि धिग्जात्यादयः पृच्छन्ति-यूयं कथं भुञ्जीवं ? तदा वक्तव्यं वयं भुञ्जीमहि कमढकादिषु / कमढकं नाम करोडकोकारं काष्ठमयं भाजनम् / एवमादिको मृषावाद उड्डाहरक्षार्थं वक्तव्यः / यदि केचिल्लुब्धकादयः पृच्छन्ति-कुतोऽत्र भगवन् ! दृष्टा मृगाः शूकरा वा ? दृष्टेष्वपि न दृष्टा इति, न शृणोमीति वा वक्तव्यं तूष्णीको वा तिष्ठति / एवं संयमहेतोम॒षा वक्तव्यम् / बोधिकगृहीतो वा अब्राह्मणोऽपि ब्राह्मणोऽहमिति ब्रवीति / स्तेनगृहीतो वा भणति-एष सार्थ एति तान् चौरान् भगति नश्यत इति / रक्तपटपरिव्राजकादिप्रत्यनीकभावित क्षेत्रे उपासकाः शठतया परमार्थेन वा पृच्छन्ति भगवन् ! यद् वयं