________________ यति-जीतकल्पे 'पणगाइ संगहो होइ पंजरो जा य सारणान्नुण्णं / पच्छित्तचमढणाहिं निवारणं सउणिदिद्वतो' पञ्चकं नाम आचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदकरूपम्, आदिशब्दात् भिक्षवो वृषभाः क्षुल्लका वृद्धाः परिगृह्यन्ते / तेषां सङ्ग्रहः पञ्चकादिसङ्ग्रहो भवति पञ्जरः। अथवा या आचार्यादीनामन्योऽन्यं-परस्परं सारणा,किमुक्तं भवति-आचार्यादयः परस्परं यन्मृदुमधुरभाषया सोपालम्भं वा शिक्षयन्ते एष वा पञ्जरः। यदि वा यत् प्रायश्चित्तचमढनाभिरसामाचार्या निवारणं-पूर्वं खरपरुषैस्तर्जयित्वा पश्चात् प्रायश्चित्तप्रदानेन यदसामाचारीतो निवर्तनं तत्पञ्जरः / अत्रार्थे शकुनिदृष्टान्तः- यथा पञ्जरे शकुनेः शलाकादिभिः स्वच्छन्दगमनं निवार्यते तथा आचार्यादि पुरुषगच्छपञ्जरे सारणाशलाकया असामाचारीरूपोन्मार्गगमनं निवार्यते / अत्र ये संघिग्नेभ्यो ज्ञानदर्शनार्थमागता ये च पार्श्वस्थादिभ्यश्चारित्रार्थमागतास्ते सङ्ग्रहीतव्याः / ये पुनः पञ्जरभग्ना ज्ञानदर्शनार्थमागता ये च पार्श्वस्थादिभ्यो ज्ञानदर्शनार्थमागतास्ते न सङ्ग्रहीतव्याः / न च स्फुटं प्रतिषेध्यन्ते / तेषां चेयं प्रतिषेधयतना-यदेतत् सूत्रमर्थं वा यूयमिच्छत तदस्माकं नास्ति / अथ भणति-मयाऽन्यसमीपे श्रुतं यथा युष्माकमेतदस्ति, अथवा भणति-मयैव यूमं वाचनां ददाना श्रुताः। तत आचार्या भणन्ति-सत्यं परमिदानों तदस्माकं शङ्कितं जातं न च शङ्कितं . ' सूत्रमों वा. दीयते आगमे प्रतिषिद्धत्वात् / ततोऽन्यत्र गच्छत यत्र निश्शङ्कितं श्रुतं लभध्वे / उक्तं च ' नत्थेअंमि जमिच्छह सुअं मए आमसंकिअं तं तु। न य संकिअं तु दिज्जइ निस्संकसुए गवेसाहि' / / एवं पूर्वोक्ता अप्यधिकरणादिदोषनिर्गता यतनया प्रतिषेध्याः / तथाहि-यः सङ्घाटकोद्विग्नः समागतः स भण्यते-अस्माकमपीदृशी सामाचारी-न सङ्घाटकेन विनो सञ्जाभूम्यादावपि गन्तुं लभ्यते / योऽनुबद्धवैरः स भण्यते-अस्माकमप्यवश्यं मण्डल्यां समुद्देष्टव्यम् / सूत्रार्थमण्डलीभग्नो भण्यते-अस्माकमियं सामाचारी सूत्रार्थमण्डलीषु यद्यपि न पठति न शृणोति वो तथापि मण्डल्यामुपविष्टस्तिष्ठति न स्वच्छन्देन स्थातुं लभ्यते / आलस्यवान् भण्यते-अस्माकमत्र क्षेत्रे बालग्लांनवृद्धा हिण्डन्ते. ततो यदि दिने दिने बहिर्भिक्षाचयाँ करोषि तदा तिष्ठ / यो निर्द्धर्मा स भण्यते-अस्माकपि यदि दुष्प्रमार्जितादीनि करोति तदा हाडहडं प्रायश्चित्तं प्रदीयते / हाडहडं नाम यत् तत्कालमेव दीयते, न कालहरणं क्रियते / विकृतिलम्पटो भण्यते-अस्माकं योगवाहिना अयोगवाहिना वा विकृतिर्न ग्राह्यो / अथवा स यद्यत् कारणं दीपयति तस्य तत्तत् प्रतिलोममुपदिश्यते / उक्तं च - _इक्कल्लेण न लब्भा वीआरादी वि जयण सच्छंदे / भोअण सुत्तेमंडलि अपढतेवी निओअंति' / अलसं भणंति बाहिं जइ हिण्डसि अम्ह इत्थ बालाई / पच्छित्तं हाडहडं अविउस्सग्गं तहा विगई। अत्राह-ननु एवं प्रतिषेधं कुर्वाणस्य माया मृषावादश्च भवति, ततः कथं संयमशुद्धिः 1 , उच्यते-नात्र मायामृषावादौ, यतः कारणे तावप्यनुज्ञातौ / कारणं चेदं-तेषां निर्गमनमशुद्धं तेनोपायेनायं प्रतिषेधः कृतः / अगीतार्थानामेषा यतना / गीतानां पुनः स्फुटमेव भण्यते यतस्ते सामाचारी जानन्तः कथमप्रीत्यादिकं कुर्वन्ति 1 तेष्वपि यन्माया-मृषावादकरणं युज्यते तत् कर्त्तव्यम् / अगीतार्थानां पुनः स्फुटं भण्यमानं विद्वेषकरं स्यात् / ते च चिन्तयन्ति-एते च मत्सरेण न ददति श्रुतं, ततोऽयशः सम्पद्यते / एतेषां च प्रतीच्छनेऽयमपवादः / यस्य निर्गमोऽशुद्धः स यतनया निषिद्धो भणति- मिथ्या मे दुष्कृतं . न पुनरेवं करिष्ये' / यद्वा भणत तत् करोमि, मुक्तो मया पापभावो दुर्गतिनिबन्धनमिहलोकेऽपि